________________
प्रमाणपरिच्छेदः। चेत् : न; तत्त्वतस्तेषामपायभेदत्वात् , कारणे कार्यापचारमाश्रित्यावग्रहभेदत्वप्रतिपादनात्, अविशेषविषये विशेषविषयत्वस्यावास्तवत्वात् । __ अथवा अवग्रहो द्विविधः-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामान्यमात्रग्राही, द्वितीयश्च विशेषविषयः तदुत्तरमुत्तरोत्तर- ५ धमाकाकारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं विनेहानुत्थानप्रसङ्गात् अत्रैव क्षिप्रेतरादिभेदसङ्गतिः, अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् । ॥ईहा ॥ ___ अवगृहीतविशेषाकाङ्कणम्-ईहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत् , यथा-'श्रोत्रग्राह्यत्वा- १० दिना प्रायोऽनेन शब्देन भवितव्यम्' 'मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना' वा इति। न चेयं संशय एवः तस्यैकत्रधर्मिणि विरुद्धनानार्थज्ञानरूपत्वात् , अस्याश्च निश्चयाभिमुखत्वेन विलक्षणत्वात् ।
॥अपाया ॥ . ईहितस्य विशेषनिर्णयोऽवायः, यथा-'शब्द एवायम्', १५ 'शाङ्क्ष एवायम्' इति वा ।
स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधा-अविच्युतिः, स्मृतिः, वासना च। तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः। तस्यैवार्थोपयोगस्य कालान्तरे 'तदेव' इत्युल्लेखेन समुन्मीलनं स्मृतिः । अपायाहितः स्मृतिहेतुः संस्कारो वासना। २० द्वयोरवग्रहयोरवग्रहत्वेन च तिमृणां धारणानां धारणात्वेनोपग्रहान्न विभागव्याघातः।।
॥ धारणा ॥ केचित्तु-अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिणः-'असभ्दूतार्थविशेषव्यतिरेकावधारणमपायः. सभ्दूतार्थविशेषावधारणं च धारणा'-इत्याहुः; तन्नः कचित्तदन्य- २५ व्यतिरेकपरामर्शात् , कचिदन्वयधर्मसमनुगमात्, कचिचोभाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण भेदाभावात् , अन्यथा स्मृतेराधिक्येन मतेः पञ्चभेदत्वप्रसङ्गात् । अथ नास्त्येव भवदभिमता धारणेति भेदचतुष्ठया (य) व्याघातः; तथाहि उपयोगो