________________
जैनतर्कभाषा । हीतेऽर्थे सम्भवतीति तद्ग्रहणं अस्मदभ्युपगतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम् , स च व्यञ्जनावग्रहकालोऽर्थपरिशून्य इति यत्किश्चिदेतत् । नन्वनन्तरम्-'क एष शब्दः' इति शब्दत्वावान्तरधर्मविषयकेहानिर्देशात् 'शब्दोऽयम्' इत्याकार एवावग्रहोऽभ्युपेय इति चेत् ; न, 'शब्दः शब्दः' इति भाषकेणैव भणनात् अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशात्, अव्यक्तस्य च सामान्यरूपत्वादनाकारोपयोगरूपस्य चास्य तन्मात्रवि
षयत्वात् । यदि च व्यञ्जनावग्रह एवाव्यक्तशब्दग्रहणमिष्येत • तदा सोऽप्यर्थावग्रहः स्यात्, अर्थस्य ग्रहणात् । १० केचित्तु-'सङ्केतादिविकल्पविकलस्य जातमात्रस्य बालस्य
सामान्यग्रहणम् , परिचितविषयस्य त्वाद्यसमय एव विशेषज्ञानमित्येतदपेक्षया 'तेन शब्द इत्यवगृहीतः' इति नानुपपन्नम्' -इत्याहुः; तन्न; एवं हि व्यक्ततरस्य व्यक्तशब्दज्ञानमति
क्रम्यापि सुबहुविशेषग्रहप्रसङ्गात् । न चेष्टापत्तिः; 'न पुनर्जा१५ नाति क एष शब्दः' इति सूत्रावयवस्याविशेषेणोक्तत्वात्,
प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्मग्रहणानुपपत्तेश्च । ____ अन्ये तु-'आलोचनपूर्वकमर्थावग्रहमाचक्षते, तत्रालोचन
मव्यक्तसामान्यग्राहि अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्रा२० हीति न सूत्रानुपपत्तिः' इति तदसत्; यत आलोचनं व्यञ्ज
नावग्रहात् पूर्व स्यात्, पश्चाद्वा, स एव वा ? नाद्यः; अर्थव्यञ्जनसम्बन्धं विना तदयोगात् । न द्वितीयः; व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः; व्यञ्ज
नावग्रहस्यैव नामान्तरकरणात् , तस्य चार्थशून्यत्वेनार्थालोचना२५ नुपपत्तेः । किञ्च, आलोचनेनेहां विना झटित्येवार्थावग्रहः कथं
जन्यताम् ? युगपचेहावग्रहो पृथगसङ्ख्येयसमयमानौ कथं घटेताम् ? इति विचारणीयम् । नन्ववग्रहेऽपि क्षिप्रेतरादिभेदप्रदर्शनादसयसमयमानत्वम् , विशेषविषयत्वं चाविरुद्धमिति