________________
१. प्रमाणपरिच्छेदः ।
सोsपि भवतीति चेत्, न, तदा स्वप्नाभिमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः । ननु 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वस्यापि छद्मस्थोपयोगस्यासङ्ख्येयसमयमानत्वात्, प्रतिसमयं च मनोद्रव्याणां ग्रहणात् विषयमसम्प्राप्तस्यापि मनसो देहाद निर्गतस्य तस्य च स्वसन्निहितहृदयादिचिन्तनवेलायां ५ कथं व्यञ्जनावग्रहो न भवतीति चेत्, श्रृणु; ग्रहणं हि मनः, न तु ग्राह्यम् । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो भवतीति न मनोद्रव्यग्रहणे तदवकाशः; सन्निहितहृदयादिदेशग्रहवेलायामपि नैतदवकाशः, बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात् क्षयोपशमपाटवेन मनसः प्रथममर्थानुपल- १० ब्धिकालासम्भवाद्वा; श्रोत्रादीन्द्रियव्यापारकालेऽपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तरमेवाभ्युपगमात्, 'मनुतेऽर्थान् मन्य न्तेऽर्धाः अनेनेति वा मनः' इति मनःशब्दस्यान्वर्धत्वात्, अर्थभाषणं विना भाषाया इव अर्थमननं बिना मनसोऽप्रवृत्तेः । तदेवं नयनमनसोर्न व्यञ्जनावग्रह इति स्थितम् ।
१५
| अथ अर्थावग्रहनिरूपणम् ।
स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणम् अर्थावग्रहः । कथं तर्हि ' तेन शब्द इत्यवगृहीतः' इति सूत्रार्थः, तत्र शब्दाद्युल्लेवराहित्याभावादिति चेत्; न; 'शब्द:' इति वक्त्रैव भणनात्, रूपरसादिविशेषव्यावृत्त्यनवधारणपर- २० त्वाद्वा । यदि च ' शब्दोऽयम्' इत्यध्यवसायोऽवग्रहे भवेत् तदा शब्दोल्लेखस्यान्तर्मुहूत्तिकत्वादर्थावग्रहस्यैकसामा (म) यिकत्वं भज्येत । स्यान्मतम्- 'शब्दोऽयम्' इति सामान्यविशेषग्रहणमप्यर्थावग्रह इष्यताम्, तदुत्तरम् - ' प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह, न तु शार्ङ्गधर्माः खरकर्कशत्वादयः' इतीहो - २५ त्पत्तेः - इति; मैवम्; अशब्दव्यावृत्त्या विशेषप्रतिभासेनास्याऽपायत्वात् स्तोकग्रहणस्योत्तरोत्तर भेदापेक्षयाऽव्यवस्थितत्वात् । किञ्च, 'शब्दोऽयम्' इति ज्ञान ( नं) शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम्, सा च नागृ
1
५