________________
१९८
जैनतर्कभाषा पृ. २७ पं. ९ अविरोधेन-स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वं परद्रव्य क्षेत्रकालभावापेक्षया नास्तित्वमित्येवं विरोधपरिहारेण अवच्छेदकमेदेनेति यावत् , व्यस्तयोरन्योन्यासङ्घटितयोःपृथग्भूतयोरिति यावत् ।
पृ. २७ पं. ९ समस्तयोश्च-अन्योऽन्यसङ्घटितमूर्तिकयोश्च विशेषणविशे. ज्यभावेनैकविशिष्टधर्मरूपतां प्राप्तयोरिति यावत , विधिनिषेधयोः भावाभावयोरस्तित्वनास्तित्वयोः कल्पनया अवमर्शेन स्यात्काराङ्कितः स्यादित्येवंस्वरूपपदघटितः, सप्तधा सप्तप्रकारः वाक्यप्रयोगः वाक्याभिलापः सप्तमङ्गी समभङ्गसमाहारः, एवकार. कितत्वमपि ज्ञेय, तथा च स्यादस्त्येव घटः १,स्यानास्त्येव घटः २, स्यादस्त्येव स्यानास्त्येव च घटः ३, स्यादवक्तव्य एव घटः ४ स्यादस्त्येव स्यादवक्तव्य एव च घटः ५, स्यानास्त्येव स्यादवक्तव्य एव च घटः ६, स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्य एव च घटः ७, इति सप्तभङ्गसमुदायात्मकमहावाक्यस्वरूपा सप्तमङ्गीत्यर्थः । कथं सप्तभङ्ग्येव भवति नाष्टभङ्गी नवभङ्गयादिकमित्यपेक्षामाह ।
पृ. २७ पं. १० इयं चसप्तभङ्गी वस्तुनि-अनन्तधर्मात्मके घटादिस्वरूपैकेकवस्तुनि
पृ. २७ पं. ११ प्रतिप्रायम्-अस्तित्वाधेकैकधर्ममाश्रित्य, सप्तविधध. मर्माणां सप्तसङ्ख्यकधर्माणां, यथा घटे अस्तित्वरूपधर्ममाश्रित्य, कथञ्चिदस्तित्वकथश्चिन्नास्तित्व--क्रमार्पितकथश्चिदस्तित्वकथञ्चिन्नास्तित्वयुगपर्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वात्मकावक्तव्यत्व-कथञ्चिदस्तित्वे सति कथञ्चिदवक्तव्यत्वकश्चिदस्तित्वे सति कथश्चिन्नास्तित्वे सति कथश्चिदवक्तव्यत्वेत्यवं रूपाणां सप्तविधधर्माणाम् ।
पृ. २७ पं. ११ सम्भवात्-एतावतैकधर्ममाश्रित्य निरुक्तसप्तविधधर्मव्यतिरिक्तधर्मासम्भवादष्टविधसंशयजिज्ञासाप्रश्नाद्यसम्भवेन नाष्टभङ्ग्यादिसम्भव इत्यावेदितम् ।
पृ. २७ पं. ११ सप्तविधेति-प्रदर्शितधरूंपविषयाणां सप्तविधत्वातविषयकाणां संशयानामपि सप्तविधत्वं तेषां सप्तविधत्वासत्कारणिकानां जिज्ञासानां