________________
१. प्रमाणपरिच्छेदः ।
तथाप्यर्थेष्वपि तद्विषयेषु योजयितुं शक्यैव, यस्य प्रतिपाद्यस्य स्याद्वादसंस्कारो नास्ति तस्यैकभङ्गोपदर्शनेन परिकर्मितमत्याधानतस्स्याद्वादसंस्कारो भवति तम्प्रति उत्तरकालं ज्ञकेन भङ्गान्तरोपदर्शनेऽपि यस्य प्रथमत एव परिकर्मितमतिता तस्य तत उद्बुद्धस्याद्वादसंस्कारबलात्स्वयमेव भङ्गान्तराणामहनमिति विशेष इति बोध्यम् । यत्र वाक्ये सप्तभङ्गीसंस्पर्शोऽपि नास्ति तत्र लौकिकवाक्ये लोकपे. क्षयैव प्रामाण्यन्न तु वस्तुत इत्याह ।
पृ. २७ पं ४ तत्रार्थप्रापकत्वमात्रेण-अर्थप्रापकत्वं वाक्ये परम्परया तजन्यतद्विषयकज्ञानात्तद्विषयकप्रवृत्तौ तदर्थावाप्तिः अत्र ग्रहे घटोऽस्तीति लौकिकवाक्यादपि गृहत्तितया घटविषयकज्ञाने जाते घटगोचरप्रवृत्तौ सत्यां घटरूपा र्थप्राप्तिर्भवतीत्यर्थप्रापकत्वन्तावता लोकापेक्षया प्रामाण्यमस्य, लोकैस्तत्र इदं प्रमाणमिति व्यवहारस्य प्रवर्तनात् , न च तत्रापि परिपूर्णार्थप्राप्तिरेव भवतीति तद्वाक्यस्यापि परिपूर्णार्थप्रापकत्वमेवेति वास्तविकप्रामाण्यमेवेति साम्प्रतम् काकतालीयन्यायेन परिपूर्णार्थप्राप्तावपि तस्य परिपूर्थिप्रापकत्वाभावात् न हि वाक्यं पुरुष हस्ते गृहीत्वाऽर्थम्प्रापयति किन्तु ज्ञानजननादर्थन्तूपदर्शयत्प्रवर्तकत्वतोऽर्थप्रापकम्भवति, लौकिकवाक्यन्त्वपरिपूर्णमेवार्थ ज्ञापयतीत्यपरिपूर्णार्थप्रापकत्वमेव तस्य । अर्थस्त्वनन्तधर्मात्मको नैकधर्मवानेव लभ्य इत्यतोऽर्थवलात्परिपूर्णार्थलामो नतु लौकिकवाक्यप्रभवज्ञानादितिहृदयम् ।।
॥ अथ सप्तभङ्गीनिरूपणम् ॥
नेनु वयं सप्तभङ्गीमेव नावगच्छामः कथमागमप्रमाणस्य तदनुसारित्वं जानीम इत्याशयेन पृच्छति।
पृ. २७ पं. ८ केयमिति-इयम्-आगमप्रमाणानुगम्यतयाऽनन्तरम् एकत्रे त्यादिलक्षणं सप्तभङ्गीति लक्ष्यम् लक्षणसङ्गमनं त्वेवं घटरूपे एकस्मिन्धर्मिण्यनन्तधर्मात्मके एकैकधर्मस्यास्तित्वादिप्रत्येकधर्मस्य यः पर्यनुयोगः प्रश्नः-घटः किमस्तीत्यादिस्वरूपः तद्वशात् उत्तराहे प्रश्ने सति तदुत्तरमवश्यमेवदेयमिति प्रश्नोतरयोः पूर्वापरं भावनियमविशेषलक्षणाङ्गाङ्गिभावबलात् ।