________________
जैनतर्कमाषा।
॥ अथ आगमप्रमाणस्य सप्तभङ्गयनुगमः ॥ आगमस्य सप्तभङयनुगमे सत्येव प्रामाण्य तथा सत्येव परिपूर्थिज्ञापकवाद , अन्यथापरिपूर्णार्थप्राप्तकत्वाभावे तात्विकप्रामाण्यासम्भवादित्याह ।
पृ. २७ पं. १ तदिदमिति सर्वत्र-सत्त्वादिधर्ममात्रोपदर्शने ।
पृ. २७ पं. १ विधिप्रतिषेधाभ्याम्-भावो विधिः अभावः प्रतिषेधः, यस्य यंत्र विधान तस्यैव तत्राभावः प्रतिषेधः, यथाऽयं सन्निति पुरोवर्तिनिसवस्य विधानं तत्र पुरोवर्तिनि नायं सन्निति सत्त्वस्यैवाभावः, एवं नित्यस्वादेरपि, ताभ्याम् ।
प. २७ पं. १ स्वार्थम्-स्वप्रतिपाद्यम् ।
पृ. २७ पं. १ अभिदधानम्--प्रतिपादयत् सत् आगमप्रमाणमिति सम्बध्यते । . पृ. २७ पं. १ सप्तभङ्गीम् सप्तानां भङ्गानां समाहारसप्तभङ्गी ताम् भङ्गाश्च सप्त अग्रे प्रदर्शयिष्यन्ते।
पृ. २७ पं. २ अनुगच्छति-अनुसरति । सप्तमङ्गीरूपतामात्मसात्कुर्वत् सदागमप्रमाणं स्वार्थम्प्रतिपादयतीत्यर्थः । पुरुषविशेष प्रतिपाद्यमाश्रित्य यत्र स्थादस्त्येव घट इत्याघेकभङ्गस्योपन्यासस्तत्र प्रतिपाद्यव्युत्पन्नमतिः स्याद्वाद. संस्कारमाहात्म्यात्स्वयमेव भङ्गान्तराण्यनुस्मृत्योक्तेनैकभङ्गेन सहानुस्मृतानां मझान्तराणामेकवाक्यतामभिनीय सप्तभङ्गीस्वरूपतापनमहावाक्यत एव परिपूर्णमथमवगच्छतीत्याह । क्वचिदेकभङ्गदर्शनेऽपि, तदुक्तं महावादिना संम्मतौ "पुरिसज्जातं तु पड्डुच्च जाणओ पन्नवेजअन्नयरं । परिकम्मणाणिमित्तं ठाएहि सो विसेसं पि" ॥ अस्या गाथाया अयमर्थः-पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं प्रतीत्य आश्रित्य ज्ञकः (प्रज्ञापका ) स्याद्वादविद् प्रज्ञापयेदन्यतरदज्ञातम् परिकमनिमित्तं अज्ञातांशसंस्कारपाटवार्थ, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्पराविनिर्मागरूपम् इति यद्यपि नयानधिकृत्येवं गाथा दर्शिता