________________
१. प्रमाणपरिच्छेदः ।
१९५ पृ. २६ पं. २६ कटेति-क्टं मिथ्या, तद्भिन्नमकूटं सत्यम् । कार्यापिणम्षोडशपणमूल्यकं राजतमुद्राविशेषः पूर्वमिदं सत्यं कार्षापणमिदं मिथ्याकार्षापणमिति तदर्शनमात्रान्न प्रत्यक्षतोऽवधारयति पुरुषस्तदानीं तज्ज्ञानं लिङ्गविशेषण कार्षापणाविनाभूतेन यद्यपि तस्य भवति, परमभ्यासदशायामिदं सत्यमिद मिथ्याकार्षापणमितिप्रत्यक्षात्मकज्ञानमविनाभूतलिङ्गविशेषग्रहणमन्तरेणैव जायते तदच्छदादप्यर्थबोधोऽभ्यासदशायां जायते इति व्याप्तिग्रहनरपेक्ष्येणैवार्थबोधकत्वादागमस्यानुमानास्पार्थक्यमित्यर्थः । आप्तः कः तद्वचनं किमित्यपेक्षायामाह ।
पृ. २६ पं. २५ यथास्थितेति-योऽर्थो यद्रूपेण व्यवस्थितस्तमर्थ तद्रूपेणवे. ज्ञात्वा य उपदिशति तथोपदेशे प्रवीणस्समर्थस्स आप्त इत्यर्थः ।
पृ. २६ पं. २५ तद्वचनम्-आप्तवचनम् , वर्णस्याकाशगुणत्वं नैयायिक आह नित्यव्यापकद्रव्यरूपत्वं मीमांसकस्स्वीकरोति, आहङ्कारिकत्वं साङ्घयो वक्ति तदेतद्विभिन्नवादिमनिरासायाह । वर्णोऽकारादिः पौद्गलिकं, प्रतिहन्यमानत्ववायुना नीयमानत्वद्वारतोऽनुगमनादिना पौद्गलिकत्वं वर्णानां सुव्यवस्थितम् , एकस्याप्यकारोकारमकारादेर्विष्णुशङ्करब्रह्मादौ सङ्केतितत्वेन तत्तदर्थवाचकत्वेन यदस स्यम्बन्धादेकस्मिन्नानुपूर्वीविशेषाभावादानुपूर्वीविशेषमपूर्णत्वस्य पदलक्षणत्वं परित्यज्य सङ्केतवत्वं पदत्वमित्येव स्वीकर्तव्यमित्याशयेनाह ।
पृ. २६ पं. २७ पदं सङ्केतवदिति-अस्मात्पदादयमर्थो बोधव्य इति इदम्पदममुमर्थ बोधयत्वितिवेच्छा सङ्केतः नत्वीश्वरीयत्वमपि तत्र निवेशनीयं गौरवात् ईश्वरानङ्गीकर्तृमतेऽपि पदस्य सङ्केतसम्भवात आधुनिकसङ्केतितेऽपि पदत्वष्यवहाराच्चेति बोध्यम् । साकाङ्क्षपदसमुदायस्यैव वाक्यत्वं नतु निराकाङ्क्षपदसमूहस्य विशिष्टार्थानवबोधकस्य वाक्यत्वं युक्तमित्याशयेन वाक्यलक्षणमुपदर्शयति ।
पृ. २६ पं. २७ अन्योन्येति-क्रियापदं कर्मबोधकपदमाकासति आनयेत्युक्तं किमित्याकाङ्क्षणात् तथा कर्मपदं क्रियाविशेषबोधमाकाङ्क्षति, गामित्युक्ते किमानय किम्वानयेतिक्रियाविशेषाकामादर्शनादित्येवं सर्वत्र ज्ञेयं तथापि शिष्टार्थबोधं जनयिव्ये पदानां परस्परमपेशाऽस्त्येव, अन्यथैकस्यादपि पदाद्विशिष्टार्थबोध उत्पद्यतेति बोध्यम् ।