________________
१. प्रमाणपरिच्छेदः ।
सप्तविधत्वं तासां सप्तविधत्वात्तन्मूलकानां सप्तविषयकप्रश्नानां सप्तविधत्त्वं तेषा सप्तविधत्वे तदुत्तररूपाणां भङ्गानामपि सप्तविधत्वमित्युपपद्यतेतरां सप्तभङ्गीत्यर्थः । तत्र प्रथमभङ्गमुपदर्शयति । __ पृ. २७ पं.१२ तत्रेति-तेषु सप्तधावाक्यप्रयोगेष्वित्यर्थः । सर्वत्वेन सर्व धर्मीकृत्यास्तित्वमेकं धममाश्रित्यभङ्गप्रदर्शने कृते प्रत्येकं घटत्वादिधर्मेण घटादौ धर्मिण्यस्तित्वादिप्रतिपादकभङ्गप्रयोगावगमोऽनायासेनैव प्रतिपाद्यानां सम्भवतीत्यभिप्रायेण सर्व धर्मीकृत्याद्यभङ्गाकारमुल्लिखति ।
पृ. २७ पं. १३ स्यादस्त्येव सर्वमिति-तद्धटकस्यात्पदार्थ दर्शयति । स्यादिति आख्यातप्रतिरूपकमनेकान्तप्रतिपादकमव्ययं तेन तदर्थः ।
पृ. २७ पं. १४ कथञ्चिदिति-एतदपि सामान्योक्तं नाविरोधाभकावच्छेदकमेदप्रतिपत्तिमाधातुमलमित्यभिसन्धायाह ।।
पृ. २७ पं. १४ स्वद्रव्यक्षेत्रकालभावापेक्षयेत्यर्थः-सर्वात्मकधर्म्यन्तरगते घटादिधर्मिण्यस्तित्वं स्वद्रव्याद्यपेक्षया सङ्गमयति । ।
पृ. २७ पं. १४ अस्ति हि-इत्यादिना-हि यतः घटादिकं द्रव्यतो यदस्ति तत् पार्थिवादिद्रव्यमाश्रित्य घटस्य मृद्विकारतया पार्थिवत्वेनैवास्तित्वं करकादेर्जलविकारतया जलत्वेनैवास्तित्वं एवमन्येषामपि स्वोपादानभूतद्रव्यरूपेणैवास्तित्वं न तु घटस्य जलात्मना करकादेम॒दात्मना परद्रव्यरूपेणास्तित्वं तथा सति घटस्यापि जलीयत्वं करकादेरपिपार्थिवत्वमिति सर्वस्य सर्वात्मकत्वम्प्रसज्येते. त्याशयः । पाटलिपुत्रकादिग्रामस्थितस्य घटादेस्तत्तत्क्षेत्रेण सहाधाराधेयभावानु रोधात्कथश्चित्तत्तत्क्षेत्रेण सह तादात्म्यमभ्युपेयं कथश्चित्तादात्म्यस्य कथञ्चित्सर्वसम्बन्धव्यापकत्वात् , यतो विशिष्टवुद्धिनियामकत्वं सम्बन्धत्वं, येन च विशिष्टबुद्धिर्न भवति स सम्बन्धएवन भवति, विशिष्टबुद्धिश्च विशिष्टात्मकविषये सत्येव भवितुमहति, विशिष्टश्चविषयोविशेषणविशेष्याभ्यां कथञ्चिदभिन्न एव, अतिरिक्तत्वे दण्डविशिष्टपुरुषक्षेत्रविशिष्टपुरुषादीनां विशिष्ट रूपाणां विशेषणविशेषाभ्यां भिन्नत्वाविशेपादन्यस्य विशेषकस्याभावात्परस्परवैलक्षण्यं न भवेदिति तदभिन्नाभिन्नस्य तदभिन्नवमितिनियमेन विशेषणाभिन्नविशिष्टस्वरूपाभिन्नस्य विशेषस्य विशेषणाभिन्नत्व