SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९५ मतभाषा । लक्षणवैधर्म्यदृष्टान्तदोषाणामपि सद्भावेन यत्र दृष्टान्तदोषस्तत्रावश्यं हेतुदोष इति नियममुररीकृत्य तादृशदोषाणामपि हेत्वाभासतयाऽभिधानं कर्तव्य स्यादित्याह । पृ. २६ पं. १५ न चेति-अस्य वाच्य इत्यन्तरसम्बन्धः । अकिश्चित्करा ख्यदोषस्य हेत्वाभासत्वखण्डनेन नैयायिकाभिमतस्य कालात्ययापदिष्टाख्यहेत्वामासस्य हेत्वामासत्वमपहस्तितम्भवतीत्याह । पृ. २६ पं. १६ एतेनेति-अस्य प्रयुक्त इत्यनेनान्वयः । पृ. २६ पं. १७ प्रयुक्त-निरस्तः पले साध्यसन्देहकाल एव साध्यसाधानकालस्तदत्ययस्तदतिक्रमः पक्ष साध्याभावप्रमाकाले साध्यसाधनं तस्मिन्काले पाधितसाध्यसाधनायापदिष्टःप्रयुक्तो हेतुः कालत्ययापदिष्ट इत्यनेन बाधितविषय एव उक्तो भवति तस्य निराकृतपक्षाभासभिन्नत्वेन हेत्वाभासत्वासम्भवादित्यर्थः । प्रकरणसमापरनामकं सप्रतिपक्षस्यापि असिद्धानकान्तिकविरुद्धबाधितभिन्नतया हेत्वाभासपश्चममेदत्वं नैयायिका अम्युपगच्छति तदपि न सम्यग् , तत्रापि साध्यसाधनयोरन्यथानुपपत्तिलक्षणाविनाभावानिश्चयेनासिद्धत्वस्यैव सम्भवादित्वाह । पृ. २६ पं. १७ प्रकरणसमोऽपि नातिरिच्यते-उक्तत्रिविधहेत्वाभासान्न भिद्यते, अत्रैव हेतुमाह। पृ. २६ पं. १८ तुल्यवयसाध्या-यद्यपि परस्परविरुद्धसाधकयो स्थापनापतिस्थापनाहेत्वोरेकस्यावश्यमेव पराभिमतव्याप्तिपक्षधर्मतावत्वलक्षणस्याभावस्तथापि तत्काले वादिप्रतिवादिभ्यां स्वपक्षप्रतिपक्षहेतौ तन्न जानाति तज्ज्ञाने तमेव नोद्भावयेदिति वस्तुतस्तुल्यबलत्वाभावेऽपि तुल्यबलतया ज्ञातेत्यर्थः । पृ.२६ पं.१८ तद्विपर्ययेति-न स्वसाध्यविरुद्धसाध्याभावलक्षणसाध्येत्यर्थः पृ. २६ पं. १९ अस्मिन्-प्रकरणसमे ॥ इति अनुमानप्रमाणनिरूपणम् । ॥ अथ आगमप्रमाणनिरूपणम् ॥ आगमप्रमाणं निरूपयति । पृ. २६ पं. २२ आप्त इति-अत्र आगम इति लक्ष्यनिर्देश , आप्तवचना
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy