________________
१. प्रमाणपरिच्छेदः । पं. २६ पं. ५ आद्य इति-शब्दे धर्मिणि प्रमेययत्वेन हेतुना नित्यत्वसाध्यम्य साधने प्रमेवम्बहेतुनिर्णीतविपक्षवृत्तिक इत्यर्थः । लक्षणं सङ्गमयति ।
पृ. २६ पं.६ अति-नित्यः शब्दः प्रमेयत्वादिति स्थल इत्यर्थः । निश्चितसाध्यवान् धर्मी सपक्ष इति व्योम्नि निन्यत्वलक्षणसाध्यम्य निश्चयात्सपले प्रमेयत्वस्य वृत्तियथा निश्चिता तथा निश्चितसाध्याभाववान्धर्मी विपक्ष इति घटादौ धर्मिणि नित्यत्वात्मकसाध्याभावरूपानित्यत्वनिर्णयाद्विपये प्रमेयत्वस्य वृत्तिनिर्णीतेति भवति प्रमेयत्वहेतुनिर्णीतविपक्षवृत्ति कानैकान्तिक इत्यर्थः । सन्दिग्धविपक्षवृत्तिकानैकान्तिकमुदाहरति ।
पृ. २६ पं. ८ द्वितियो यथेति-जैनेन संवज्ञत्वेन रूपेणाभिमते पुरुषधौ. रेये महावीरे वक्तत्वेन हेतना सर्वज्ञवाभावलक्षणसाध्यस्य मीमांसकेन साधन वक्तृत्वहेतुस्सन्दिग्धविपक्षवृत्तिकानैकान्तिक इत्यर्थः । तत्र लक्षणं सङ्गमयति ।
पृ. २६ पं. ८ अत्रेति-अभिमताः सर्वज्ञो न भवति वक्तृत्वादित्यनुमाने इत्यर्थः । यच नैयायिकस्य सोपाधिकत्वेन व्याप्यत्वासिद्धतयाऽभिमतो हेतुः सोऽपि सन्दिग्धविपक्षवृत्तिकानैकान्तिक एवान्तभवतीत्याशयेनाह । पं. २६ पं. १० एवं चेति-॥ इति अनैकान्तिकहेत्वाभासनिरूपणम् ॥
॥ अथ परवाद्यभिमतहेत्वाभासखण्डनम् ॥ धर्मभूषणेन अप्रयोजकापरनामाऽकिञ्चित्कगे हेतुस्सिद्धसाधनवाधितविषयाभ्यां द्विप्रकारो हेत्वाभासोऽधिक उररीकृतस्तन्मतम्प्रतिक्षिपति ।
पृ. २६ पं. १३ अकिञ्चित्कराख्य इति तस्य-अकिश्चित्करस्य प्रती तेति सिद्ध साधनरूपाकिश्चित्करस्य प्रतीताख्य-पक्षाभासाभिन्नत्वात्, बाधित. विषयरूपाकिश्चित्करस्य च निराकृताख्यपक्षाभासाभिन्नत्वाढतो हेतुदोष एवायं न भवति, कुतस्तमादाय हेत्वाभासस्य चतुर्विधत्वमित्यर्थः। पक्षदोषस्याप्यस्य यत्र पक्षदोषस्तत्रावश्यं हेतुदोष इतिनियममुररीकृत्य हेत्वाभासत्वाभ्युपगमे साध्यवि. कल-हेतुविकल-साध्यासाधनोभयविकल - दष्टान्तलक्षणसाधर्म्यदृष्टान्तदोषाणां साध्याभावविकल-साधनाभावविकल-साध्याभावसाधनाभावोभयविकल--दृष्टान्त