________________
१९.
जैनतर्कभाषा। ॥ अथ विरुद्धहेत्वाभासनिरूपणम् ।। विरुद्ध लक्षयति ।
पृ. २५ पं. २८ साध्येति-अत्र विरुद्ध इति लक्ष्यं साध्यविपरीतव्पाप्त इति लक्षणम् , साध्याभावव्याप्यो हेतुर्विरुद्ध इत्यर्थ । उदाहरति ।
पृ. २५ पं. २८ यथेति-शन्दो धर्मी अपरिणामित्वं साध्यं कृतकत्वं हेतुः तत्र विरुद्धलक्षणं सङ्गमयति ।
पृ. २६ पं. १ कृतकत्वमितिः-अपरिणामित्वं परिणामित्वाभावः तस्य. स्वप्रतियोगिना परिणामित्वेन समं परस्पराभावरूपत्वलक्षणप्रतिपध्यप्रतिषेधकभावो विरोधः, अभावाभावस्य प्रतियोगिरूपत्वेनापरिणामित्वाभावस्य परिणामित्वस्य व्याप्तत्वाकृतकत्वं विरुद्धमित्यर्थः ।
॥ अथ अनैकान्तिकहेत्वाभासनिरूपणम् ॥ अनैकान्तिकहेत्वाभास निरूपयति । यस्येति अत्र-अनैकान्तिक इति लक्ष्यं, यस्यान्यथानुपपत्तिम्सन्दिह्यते स इति लक्षणम् , अनिर्णीतसाध्यान्यथानुपपत्तिको हेतुरनैकान्तिक इत्यर्थः । अस्यैव सव्यभिचार इति नामान्तरम् , यस्मिन्हेतौ साध्याभाववृत्तित्वं सन्दिह्यते तदानीं तत्र साध्यं विनाऽनुपपत्तिनिर्णयो न विद्यते, साध्यान्यथानुपपत्तेतौ निर्णये साध्याभावववृत्तित्वाभावरूपाव्यभिचारनिर्णयरूपप्रतिबन्धकसत्त्वात्साध्याभावववृत्तित्वसंदेहासम्भवात् , यत्र च हेतौ क्षाध्याभाववृत्तित्वस्य नीर्णयो यदा विद्यते तदानीं तद्रूपप्रतिबन्धकसत्त्वात्साध्याभाववद. त्तित्त्वात्मकाऽव्यभिचारलक्षणान्यथानुपपत्चेनिर्णयासम्भवादुभयत्रेदं लक्षणं समनुगतमिति ।
पं. २६ पृ. ४ सु इति-अनैकान्तिकहेत्वाभासो निर्णीतविपक्षवृत्तिकसन्दिग्धविपक्षवृतिकभेदाभ्यां द्विप्रकार इत्यर्थः । यस्य हेतोः विपक्षे साध्याभाववति धमिणि वृत्तिनिर्णीता स निर्णीतविपक्षवृत्तिकः यस्य तु साध्याभाववति विपक्षे वृत्तिः सन्धिग्धा स सन्दिग्धविपक्षवृत्तिकः । तत्र प्रथममुदाहरति ।