________________
१. प्रमाणपरिच्छेदः ।
१९३ दात्रिभूतमर्थसंवेदनामिति लक्षणनिर्देशः । नैयायिकैः शन्दलक्षणागमस्य प्रामाण्यं परिकल्पितं तच्चायुक्तं जडस्य तस्य ज्ञानत्वाभावेन ज्ञानविशेषत्वात्मकप्रमाणत्वस्याप्ययोगादितिलक्षणेअर्थसंदनमित्युक्तं, अग्न्यादिशब्दोचारणे मुखदाहादि प्रसङ्गान शब्दार्थयोस्तादात्म्यलक्षणसम्बन्धः, सुवर्णद्रव्यादिशब्दोच्चारणमात्रत एव सुवर्णादिधनलाभसिद्धेः न कोऽपि जगति दरिद्रः स्यानवा तत्प्राप्तये राजसेवावाणिज्याद्यायासेनात्मानमायासयेदिति तदुत्पत्तिलक्षणोऽपि न तयोस्सम्बन्धः, तदुभयभिन्नस्तु सम्बन्धो नार्थप्रतिबन्धनिबन्धनं, तत एव न सङ्केतात्मासम्बन्धो. ऽपि नैयायिकपरिकल्पितो युक्तः, तस्य सम्बन्धत्वे यथाऽयं शब्दोऽमुमर्थ बोधयत्विति सङ्केतकक्षणाच्छब्दोऽर्थस्य वाचकश्शब्दवाच्यस्त्वर्थः । तथाऽयमर्थोऽमुंशन्दं बोधयत्विति सङ्केतकरणस्यापि सम्भवेनार्थश्शब्दस्य वाचकश्शब्दोऽर्थस्य वाच्य इति वाच्यवाचकपरिवर्तनमपि भवेत् , एवं शब्दार्थलक्षणयोः क्षणभडगुरत्वात सन्तानयोश्वावास्तविकत्वाद्यः शब्दो यदोत्पन्नस्तदनन्तरमेव विनश्यति नार्थकालमनुधावति, अर्थोऽपि स्वोत्पत्यनन्तरमेव विनश्यति न शब्दोत्पत्तिकालं याव. त्तिष्ठतीति विभिन्नकालीनयोस्तयोर्न सङ्केतः कत्तुं शक्यः, समानकालीनयोरपि न तत्स्वरूपमविज्ञायैव तत्र सङ्केतकरणमिति तत्स्वरूपज्ञानावश्यकत्वे ज्ञानकाले तदुभयोरपि विनाशान्निराधारसङ्केतकरणासम्भवान्न सङ्केतः कर्तुं शक्यः । सर्वस्याथक्रियाकारित्वलक्षणसत्त्वतः क्षणिकतयैव व्यवस्थितेः नित्यानुगतैकस्वरूपसामान्यस्याभावादेव तत्र सङ्केतकरणासम्भव इति शब्दार्थयोस्सम्बन्धाभावान्न शब्दोऽर्थबोधञ्जनयति किन्तु विकल्पात्स्वयं जायते विकल्पश्चोत्पादयति, तदुक्तं
विकल्पयोनयः शब्दा विकल्पा शब्दयोनयः ।
कार्यकारणता तेषां नार्थ शब्दाः स्पृशयन्त्यपि ॥१॥ . इति बोद्धमतापाकरणायोक्तमर्थसंवेदनमिति, अर्थक्रियाकारित्वलक्षणसत्त्वस्यै. कान्तक्षणिके तथैकान्तनित्ये चासम्भवात्कथञ्चित्क्षणिकाक्षणिकरूप एव शब्दो. ऽर्थश्च, तयोरुक्तयुक्त्या तादात्म्यतदुत्पत्योरसम्भवेऽपि वाच्यवाचकभावलक्षण. स्ताभ्यां कथञ्चिदभिन्नः प्रथमं वाच्योत्पत्तौ वाच्यकालेऽअंशेनोत्पद्यवाचकोत्पत्तिकाले अंशेनोत्पद्यमानस्वभावं प्रथमं वाचकोत्पत्तौ तत्काले अंशेनोत्पद्यवाच्योत्पत्ति काले अंशेनोत्पदिष्णुस्वभावः सकलशब्दार्थसाधारणोऽपि प्रतिनियतशब्दार्थसहे. ताभिव्यज्यमानस्सम्बन्धोऽस्त्वेव, तबलेन शब्दार्थसंवेदनं सम्भवत्येवेति न विक
२५