________________
१. प्रमाणपरिच्छेदः।
१८७
तरूणां विज्ञानेन्द्रियायुनिरोधलक्षणमरणमभ्युपगच्छतः प्रतिवादिनो जैनस्य न सिद्ध इति प्रतिवाद्यसिद्धोऽयमचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादित्यत्रोपात्तो हेतुरित्यर्थः । अचेतनाः सुखादय उत्पत्तिमत्त्चादित्येवं जैनम्प्रति साडख्यो यद्यनुमानप्रयोगं रचयेत्तदा साङ्ख्यस्यैकान्तसत्कार्यवादिनः उत्पत्तिमत्त्वं क्वचिदपि न सिद्धमिति सुखादिषु धर्मिष्वपि तत्तस्य असिद्धमेवेति वाद्यसिद्धत्वादन्यतरासिद्धोऽयं हेतुरित्यर्थः । अन्यतरासिद्धस्य हेत्वाभासत्वमसहमानः कश्चित्प्रश्नयति ।
पृ. २५ पं. ११ नन्विति-अन्यतरासिद्धस्य हेत्वाभासत्वाभावं भावयति । - पृ. २५ पं. ११ तथाहि-इत्यादिना परेण प्रतिवादिना असिद्ध इत्युद्भाविते यदि त्वया प्रयुक्तोऽयं हेतुने प्रमाणेन प्रकृतधर्मिणि सिद्ध इत्येवमभिहिते सति ।
पृ. २५ पं. १२ वादी न तत्साधकं प्रमाणमाचक्षीत-अनुमानप्रयोक्ता प्रकृतधर्मिणि स्वप्रयुक्तहेतुसाधकं किमपि प्रमाणं न ब्रूयात् ।।
पृ. २५ पं. १३ प्रमाणाभावादुभयोरप्यसिद्धः-प्रतिवादी तत्र प्रमाणमपश्यन्नवासिद्ध इत्यभिहितवानिति प्रतिवादिनः प्रमाणाभावादेवासिद्धः, कथायां प्रयुक्तमेव प्रमाणम्प्रमाणताम्भजते, प्रयुक्तमिति सदपि प्रमाणमप्रयुक्तत्वान्न तत्र प्रमाणमिति वादिनोऽपि प्रमाणाभाव इति प्रमाणाभावाद्वादिप्रतिवादि. नोरुभयोरप्यसिद्धो, नत्वेकस्यैवेति ।
पृ. २५ पं. १३ अथाचक्षीत-प्रतिवादिना तवायमसिद्धो हेतुरित्युद्धाविते यदि वादी स्वोपन्यस्तहेतौ प्रमाण ब्रूयात् , एवं सति यत्प्रमाणं तत्सर्वस्यापि प्रमाणम्भवत्येव नत्वेकस्य तत्प्रमाणमन्यस्य तु न प्रमाणन हि प्रमाणस्य प्रामाण्या प्रामाण्ये आपेक्षिके सम्भवत इति यद्वादिनोक्तं प्रमाणं, तत्प्रतिवादिनोऽपि प्रमाणमेवेति तत्सिद्धमुभयसिद्धमेवेति नैवमप्यत्रान्यतरासिद्धत्वस्यावकाश इत्याह ।
पृ. २५ पं. १३ तदा इति-प्रमाणोपदर्शनानन्तरम्भवतूभयसिद्धम् । ततः प्राक् प्रमाणेनाप्रसाधितं तन्न प्रतिवादिनोऽम्युपगमविषय इत्येतावता तम्प्रत्यसिद्धस्वादन्यतरासिद्धस्तदात्मको हेतुरुज्यत इत्याशते ।