________________
नतर्कभाषा । पृ. २५ पं. ३ हेत्वाभासः-हेतुवदामासत इतिहेत्वाभासो दुष्टहेतुरिति यावत् , तल्लक्षणन्त्वनुमितितत्करणान्यतरप्रतिवन्धकज्ञानविषयवत्वम्, अत्रोक्तज्ञा नविषयत्वं हेतुदोषस्य लक्षणमिति नयायिका वदन्ति । स्वमते सद्धेतुभिन्नहेतुत्वमेव दुष्टहेतोर्लक्षणं । परोक्तलक्षणस्य दुष्टपक्षदुष्टसाध्येऽपि सत्त्वेनातिव्याप्तिग्रस्त. त्वादतोऽतोऽन्यो हेत्वाभास इत्युक्तम् , हेत्वाभासं विभजते ।
पृ. २५ पं. ५ स त्रेधा-असिद्धविरुद्धानकान्तिकमेदाढेत्वाभासखिप्रकार इत्यर्थः । प्रथमोद्दिष्टमसिद्धहेत्वाभासं निरूपयति । _पृ. २५ पं. ५ तत्रेति-असिद्धविरुद्धानकान्तिकहेत्वाभासेषु मध्य इत्यर्थः । अप्रतीयमानस्वरूपो हेतुरिति लक्षणं असिद्ध इति लक्ष्यम् , असिद्धत्वेनाभिमतस्य हेतोस्वरूपाप्रतीतौ कारणान्युपदर्शयति ।
पृ. २५ पं. ६ स्वरूपाप्रतीतिश्चेति-वाकारः कस्यचित्प्रमातुः हेतुस्वरूपा प्रतीतिस्तदज्ञानाद्भवति,कस्यचित्तु हेतुस्वरूपे ।
पृ. २५ पं.६ सन्देहात्:-कस्यचित्पुनः विपर्ययात् इति पुरुषमेदेन कारण मेदज्ञापनार्थम् ।
पृ. २५ पं. ७ स इति-उभयासिद्धान्यतरासिद्धभेदेन असिद्धलक्षणो हेत्वाभासो द्विप्रकार इत्यर्थः । यो हेतुः वादिप्रतिवादिभ्यामुभयाभ्यामपि पक्षे धर्मिणि नैव सिद्धोऽपि तु तदभाव एव पक्ष वादिप्रतिवादिभ्यामनुमतः स उभया. सिद्धोऽसिद्धस्य प्रथमो भेदस्तमुदाहरति ।
पृ. २५ पं. ७ आयो यथेति-यदि शब्दः परिणामी चाक्षुषत्वादित्यनुमानं जैनो नैयायिकम्प्रति विदधीत, तदा वादिना जैनेन प्रतिवादिनी नैयायिकेन च शब्दे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्व लक्षण चाक्षुषत्वं न सिद्धं, द्वाभ्यामपि ताभ्यो शब्दे श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वलक्षणश्रावणत्वाभ्युपगत्या चाक्षु. पत्वाभावस्यैवोपेतत्वादित्यर्थः । वादिनः प्रतिवादिनो वा यो हेतुः पक्षे न सिद्धो ऽपि तु तदभाव एव वादिप्रतिवाद्यन्यतराभीष्टस्स हेतुरन्यतरासिद्धस्तमुदाहरति ।
पृ. २५ पं. ८ द्वितीयो यथेति-यदि जैनम्प्रति बौद्धस्तरुषु चैतन्या. भावसाधनाय विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वं हेतुं प्रयुजीत, सोऽस्य हेतुः