________________
१. अवारिका स्याविरुद्धो व्यापको पृक्षः सामान्यस्य विशेषव्यापकता सुप्रतीतैव तस्यानुपलम्भा दुपलध्यभावो भवत्येव प्रतिषेध्याविरुद्धव्यापकानुपलम्भात्मा द्वितीयः । नास्त्यत्राप्रतिहतशक्तिकं बीजम् अङ्कुरानुपलब्धेरित्यत्र अप्रतिहतसामर्थ्य कारणे सति कार्यमवश्यमेव भवतीति प्रतिसन्धाय अडकुरलक्षणकार्यानुपलब्ध्य क्षेत्रविशेषे अप्रतिहतसामर्थ्यकं बीजं निषिध्यते, अर्थात्तादृशबीजाभावत्साध्यत इति प्रतिषेध्यमप्रतिहतशक्तिकं बीजं निषिध्यते, तस्याविरुद्ध कार्यमङ्कुरं तदनुपलब्धिर्भवति प्रतिषेच्याविरुद्धकार्यांनुपलब्धिरूपस्तृतीयः । न सन्त्यस्य प्रशमप्रभृतयो भावाः, तत्वार्थश्रद्धानाभावादित्यत्र रथ्यापुरुषसमकक्षे पुरुषविशेषे सम्यग्दर्शनकार्याणा प्रशमप्रभृतीनामभावस्साध्य इति प्रशमप्रभृतयो भावाः प्रतिषेध्यास्तेषामविरुद्ध कारणं तत्वार्थश्रद्धानलक्षणसम्यग्दर्शनस्तदनुपलम्भस्तदभावो भवति प्रतिषेध्या. विरुद्धकारणानुपलब्ध्यात्मा तुरीयः । नोद्गमिष्यति मुहूर्त्तान्ते स्वातिः चित्रोदयादर्शनादित्यत्र चित्रोदयादर्शनहेतुना मुहूर्तानन्तरं भविष्यत्स्वातिनक्षत्रोदयाभावस्साध्यत इति प्रतिषध्यस्तादृशस्वातिनक्षत्रोदयः तस्याविरुद्धः पूर्वचरश्चित्रानक्षत्रोदयस्तददर्शनं तदभावो भवति, प्रतिषध्याविरुद्धपूर्वचरानुपलब्ध्यात्मा पञ्चमः । नोद्गमत्पूर्वभद्रपदा मुहूर्तात्पूर्वम् उतरभद्रपदोद्गमानवगमादित्यत्र उत्तरभद्रपदो. द्गमानवगमेन हेतुना मुहूर्तात्पूर्वम्भूतपूर्वभद्रोद्गमाभावस्साध्यत इति प्रतिषेध्यस्तादृशपूर्वभद्रपदोद्गमस्तस्याविरुद्ध उत्तरचर उत्तरभद्रपदोद्गमस्तदनवगमस्तदभावो भवति प्रतिषेध्याविरुद्धोत्तरचरानुपलब्ध्यात्मा षष्ठः। नास्त्यत्र सम्यग्ज्ञानम्, सम्यग्दर्शनानुपलब्धेरित्यत्र सम्यग्दर्शनाभावेन हेतुना पुरुषविशेषे सम्यग्ज्ञानाभावस्साध्यते तत्प्रतियोगित्वात्प्रतिषध्यं सम्यग्ज्ञानं तस्याविरुद्धं सहचरं सम्यग्दर्शनं तदनुपलब्धिस्तदभावो भवति प्रतिषध्याविरुद्धसहचरानुपलब्ध्यात्मा सप्तमः ।
॥ इति प्रतिषेधसाधकाविरुद्धानुपलब्धिसंज्ञकप्रतिषेधहेतुनिरूपणे वृत्तं हेतुनिरूपणम् ॥ इतिहेतुनिरूपणम् ॥
॥ अथ हेत्वाभासनिरूपणम् ॥
हेतुनिरूपणमुपसंहरन् तद्भिन्नत्वाद्धेत्वाभासनिरूपणमपि विधेयमित्याह । पृ. २५ पं. २ सोऽयमिति अतः हेतुतः अन्यो-भिन्नः ।