________________
૧૮૪
जैन भाषा ।
भावो हेतुरत्र भवति विधेयविरुद्ध कार्यानुपलम्भात्मा प्रथमः । विद्यतेऽत्र कष्टं इष्टसंयोगाभावादित्यत्र विधेयं कष्टं दुःखं तद्विरुद्धं सुखं तस्य कारणमिष्टस्य प्रिय मित्रादेः संयोगो मिलापस्तस्यानुपलब्धिरभावो, हेतुर्भवति विधेयविरुद्धकारणानुपलम्भात्मा द्वितीयः । वस्तुजातमनेकान्तात्मकम् एकान्तस्वभावानुपलम्भा दित्यत्रविधेयं अनेकात्मकत्वं तद्विरुद्धस्वभाव एकान्तस्वभावः तस्यानुपलम्भोभावो भवति विधेयविरुद्धस्वभावानुपलम्भात्मा तृतीयः । अस्त्यत्र छाया औष्ण्यानुपलब्चेरित्यत्र विधेयीभूता छाया तद्विरुद्ध आतपस्तद्वयापक मौष्ण्यं तस्यानुपलम्भोऽभावो भवति विधेयविरुद्रव्यापकानुपलम्भात्मा चतुर्थः । अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनाननुपलब्धेरित्यत्र विधेयं मिथ्याज्ञानं तस्य विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं तस्यानुपलम्भोऽभावो भवति विधेयविरुद्धसहचरानुपलम्भात्मा पञ्चमः ॥ इति विधिसाधक विरुद्धानुपलब्धिसंज्ञकप्रतिषेधरूपहेतुनिरूपणम् ॥
॥ अथ प्रतिषेधसाधकप्रतिषेधरूपहेतुनिरूपणम् ॥
प्रतिषेधसाधका विरुद्धानुपलब्धिसंज्ञकप्रतिषेधरूप हेतुप्रकारान्दर्शयति ।
पृ. २४ पं. २२ द्वितीय इति प्रतिषेध्याविरुद्वस्वभावानुपलब्धिः १, प्रतिषेभ्याविरुद्ध व्यापकानुपलब्धिः २ प्रतिषेध्याविरुद्ध कार्यानुपब्धिः ३; प्रतिषेध्याविरुद्धकारणानुपलब्धिः ४ प्रतिषेध्याविरुद्ध पूर्व चरानुपलब्धिः ५; प्रतिषेध्याविरुद्धोत्तरचरानुपलब्धिः ६; प्रतिषेध्याविरुद्धसहचरानुपलब्धिः ७ । इत्येवं भेदात्सप्त प्रकारकोविरुद्धानुपलब्धिसंज्ञकः प्रतिषेधसाधकः प्रतिषेधरूपो हेतुरित्यर्थः । उक्ताप्रकारान्क्रमेणोदाहरति ।
पृ. २४ पं. २३ यथेत्यादिना - नास्त्यत्र कुम्भः उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलब्धेरित्यत्र भूतलादिपुरोवर्तिदेशे घटो निषिध्यते अर्थात् घटाभावस्साध्यत इति प्रतिषेध्यो घटः तस्याविरुद्धः उपलब्धिलक्षणप्राप्तोऽर्थात्तच्चाक्षुषप्रत्यक्षजनकघटतद्व्याप्येतरा लोकादिसमवधाने सति प्रत्यक्ष योग्यतापन्नस्तत्स्वभावः पृथुबुभाद्याकारविशिष्टघट स्वरूपं तस्यानुपलम्भो विषयतया तदुपलब्ध्यभावो भवति प्रतिषेध्याविरुद्ध स्वभावानुपलब्धिलक्षणः प्रथमः । नास्त्यत्र पनसः पादपानुपलब्धेरित्यत्र पनसा भावस्य साध्यत्वेन प्रतिषेध्यः, पनसो वृक्षविशेषस्त