________________
प्रमाणपरिच्छेदः ।
१८३ नोदगात मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयादित्यत्र पूर्वफल्गुन्युदयात्मा हेतु: षष्ठः, नास्त्यस्य मिथ्याज्ञानं सम्यग्ज्ञानादित्यत्र सम्यग्ज्ञानस्वरूपो हेतुः सप्तमः, अन्ते इति शब्दः विरुद्धोपलब्धिहेतुप्रकारोपदर्शनपरिसमाप्तौ, क्रमेणोपदर्शितानां विरुद्धोपलब्धिहेतुप्रभेदानां सप्तानामपि हेतूनां क्रमेण प्रतिषघस्वभावविरुद्धादिरूपतां भावयति ।
पृ. २४ पं. ७ अत्रेत्यादिना...तदनिश्चयेति-तत्त्वानिश्चयेत्यर्थः ।
पृ. २४ पं. ९ तदनुपशमेति-क्रोधानुपशमेत्यर्थः । अन्यत्सर्व स्पष्टम् । इति प्रतिषेधसाधकविरुद्धोपलब्धिविधिस्वरूपहेतुनिरूपणम् ॥
॥ अथ प्रतिषेधरूपहेतुनिरूपणम् ॥ प्रतिषेधस्वरूपहेतुप्रकारमुपदर्शयति ।
पृ. २४ पं. १५ प्रतिषेधरूपोऽपीति-विधिसाधकस्य प्रतिषेधस्वरूपहेतोः प्रकारानुपदर्शयति ।
पृ. २६ पं. १६ आद्य इति-प्रतिषेधरूपहेतोः प्रथमो भेदो विधिसाधकप्रतिषेधरूपहेतुः । यथा विधिस्वरूपहेतोः प्रथमभेदो विधिसाधकोऽविरुद्धोपलब्धिनामा, तस्यैव द्वितीयः भेदः प्रतिषेधसाधको विरुद्धोपलब्धिनामा, तथा प्रतिषेधरूपहेतोरपि प्रथमभेदो विधिसाधको विरुद्धोनुपलब्धिनामा, तस्यैव द्वितीय मेदः प्रतिषेधसाधकोऽविरुद्धानुपलब्धिनामेत्यभिसन्धानेनोक्तम् ।
पृ. २४ पं. १६ विरुद्धानुपब्धिनामेति । विधेयविरुद्धेति-विधेयविरुद्धकार्यानुपलम्भः १; विधेयविरुद्धकारणानुपलम्भः २; विधेयविरुद्धस्वभावानुपलम्भः ३, विधेयविरुद्धव्यापकानुपलम्भः ४; विधेयविरुद्ध सहचरानुपलम्मः ५; इत्येवं मेदात् विधिसाधकः प्रतिषेधलक्षणो विरुद्धानुपलब्धिसंज्ञको हेतुः पञ्चप्रकार इत्यर्थः । क्रमेणैषामुदाहरणान्युपदर्शयति ।
पृ. २४ पं. २७ यथेत्यादिना-अस्त्यत्र रोगातिशयो निरोगव्यापारानुपलब्धेरित्यत्र विधेयः साध्यो रोगातिशयः तस्य विरुद्धं नैरुज्यं तस्य कार्य निरोगपुरुषकवृकसोत्साहगमनागमनादिक्रियालक्षणव्यापारस्तस्यानुपलिब्धिस्तद