________________
१८२
जैनतर्कभाषा समानकालीनत्वेनानयोः पौर्वांपर्याभावात् पौर्वापर्यनियतकार्यकारणभावोऽपि नेति, स्वभावकार्यकारणेषु सहचरस्य नान्तर्भाव इति पृथगेवायं हेतुरित्याह ।
पृ. २३ पं.२४ परस्परेति, अस्य-सहचरस्य उदाहृताना हेतूनां भावरूपत्वादावसाधकत्वाच्च विधिसाधकविधिरूपत्वं विधेयेनाविरुद्धतयोपलभ्यमानत्वादेव चाविरुद्धोपलब्धिरूपत्वमन्यत्र गीयत इत्युपसंहरति ।।
पृ. २३ पं. २५ एतेषूदाहरणेविति, त एव-पूर्वमुदाहृता धूमादिहेतव एव, इति विधिसाधकविधिस्वरूपहेतुषट्प्रकारोपवर्णनम् । अथ प्रतिषेधसाधक विधिस्वरूपहेतून्निरूपयति ।
पृ. २३ पं.२८ द्वितीयस्त्विति-प्रतिषेधसाधकविधिस्वरूपहेतुस्त्वित्यर्थः । प्रथमस्याविरुद्धोपलब्धिसंज्ञकत्वे निगमिते, द्वितीयस्य विरुद्धोपलब्धिसंज्ञकत मागतमेव, तथापि स्पष्टप्रतिपत्तये उक्तम् -
पृ. २३ पं. २८ विरुद्धोपलब्धिनामेति-प्रतिषेधसाधकविधिस्वरूपहेतुप्रकारानुपदर्शयति।
पृ. २३ पं. २८ स चेति-विरुद्धोपलब्धिनामको निषेधसाधको विधिस्वरूप हेतुश्चेत्यर्थः ।
पृ. २३ पं. २८ स्वभावेति-निषेध्यस्वभावविरुद्धोपलब्धिः १ निषेध्यव्याप्यविरुद्धोपलब्धिः २ निषेध्यविरुद्धकार्योपलब्धिः ३ निषेध्यविरुद्धकारणोपलब्धिः ४ निषेध्यविरुद्धपूर्वचरोपलब्धिः ५, निषेध्यविरुद्धोत्तरचरोपलब्धिः ६, निषेध्यविरुद्धसहचरोपलब्धि ७. इत्यवं सप्तप्रकारो निषेधसाधको विरुद्धोपलन्धिनामको विधिस्वरूपो हेतुरित्यर्थः । क्रमेण तानुदाहरणतो भावयति ।
पृ. २४ पं. १ यथेति-नास्त्येव सर्वथा एकान्तः अनेकान्तस्योपलम्भादि. त्यत्र अनेकान्तलक्षणो हेतुः प्रथमः नास्त्यस्य तत्वनिश्चयः तत्र सन्देहादित्यत्र तत्वविषयकसन्देहलक्षणो हेतुद्वितीयः, नास्त्यस्य क्रोधोपशान्तिः वदनविकारादेरित्वत्र वदनविकारादिलक्षणो हेतुस्तृतीयः, नास्त्यस्यासत्यं वचः रागाद्यकलङ्कितज्ञानकलितत्वादित्यत्र रागाद्यकङ्कितज्ञानकलितत्वरूपो हेतुश्चतुर्थः, नोद्गमिप्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमादित्यत्र रोहिण्युद्गमात्मकहेतुः पञ्चमः,