________________
१८१
प्रमाणपरिच्छेदः । पृ. २३ पं. १५ कारणस्य-वृष्टयादिकारणस्य ।
पृ. २३ पं. १५ कार्यानुमापकत्वात्-वृष्टयादिकार्यानुमापकत्वात् विधिसाधकं तुरीयं पूर्वचरात्मकविधिरूपहेतुं निरूपयति ।
पृ. २३ पं. १६ कश्चित्पूर्वचर-इति उदाहरति ।
पृ. २३ पं. १६ यथेति, शकटम-रोहिणीनक्षत्रम् । उदेष्यतीत्यस्य मुहू. न्तेि उदयं प्राप्स्यतीत्यर्थः । अन्यत्स्पष्टम् , विधिसाधकं पञ्चममुत्तरचरात्मकविधिरूपहेतुं प्ररूपयति । ___ पृ. २३ पं. १९ कश्चित् उत्तरचर इति तम्-भरण्युदयम् कार्यकारणयोरव्यवधाने सत्येव कार्यकारणभावः पूर्वचरोत्तरयोस्तु मुहूर्तात्मककालव्यवधानात् न कार्यकारणभावः, इति पूचरस्य न कारणहेतावन्तर्भावः, उत्तरचरस्य च कार्यहेतावन्तर्भाव इत्यनयोः प्रत्येकं पृथगेत्र हेतुत्वमित्याह ।
पृ. २३ पं. २१ कालव्यवधानेनेति-अनयोः-पूर्वचरोत्तरचरयो, कार्यकारणाभ्यां भेद इति समासेऽल्पस्वरस्य पूर्वनिपात इति नियमबलादत्र कार्यपदस्य पूर्वमुपादानम् अन्वयस्तु पूर्वचरस्य कारणाद्भेदः, उत्तरचरस्य कार्याद्भेद इति । विधिसाधकं षष्टं सहचरात्मकविधिस्वरूपहेतुं निरूपयति ।
पृ. २३ पं. २१ कश्चित्सहचर इति, मातुलिङ्गम्-"बिजोरा" इति भाषया लोके प्रसिद्धं फलं, तत्फलमन्धकारावृतेऽन्तर्गृहकोणे उपभुञ्जानापुमान् मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्तान्यथानुपपत्तेरित्यनुमिनोति तदानीमास्वाद्यमानाद्रसविशेषाद्योग्यमपि तत्रस्थं रूपविशेषमालोकसंयोगाद्यात्मक चाक्षुषप्रत्यक्षकारणाभावादप्रत्यक्षमित्यतोऽनुमिनोति तत्र रसो विधिरूपो हेतूरूपस्य सहचरः, तस्य गमकत्वमुपपादयति ।
पृ. २३ पं. २३ रसो हीत्यादिना-जैनमते पौद्गलिकानां यावतामेव नियमेन रूपरसगन्धस्पर्शवत्त्वमिति ।
पृ. २३ पं. २३ नियमेन रूपसहचरितो-रसः । तदभावे-रूपाभावे । अनुपपद्यमानोऽसम्भवस्थितिकः । तद्गमयति-रूपमनुमापयति रूप रसयोः परस्परस्वरूपपरित्यागेनोपलम्भान्नैक्यमिति न रूपस्वभावत्वं रसस्य,