________________
जैनतर्कभाषा
पृ, २३ पं. ९ धूम इति, हि यतः तदभावे अग्न्यात्मकस्वकारणाभावे, विधिसाधकं कारणात्मकविधिरूपहेतु तृतीयं निरूपयति ।
१८०
पृ. २३ पं. १० कश्चित्कारणरूपम् - इति-विशिष्टेति - अत्यन्तनैल्योनतत्वादिविशिष्टेत्यर्थः ।
पृ. २३ पं. ११ मेघविशेष इति - अत्यन्तनरैयोन्नतत्वादिविशिष्टमेघः कारणात्मकविधिरूप हेतुरित्यर्थः । भावयति ।
पृ. २३ पं. ११ स हि - तादृशमेघविशेषो यत इत्यर्थः । अत्र कारणस्य कार्यसाधकत्वमसहमानः परश्शङ्कते ।
पृ. २३ पं. १२ नन्विति - कार्याभावेऽपि सम्भवत्कारणमित्यनेन कार्य रूपसाध्याभाववद्वृत्तित्वादनैकान्तिकत्वं कारणहेतोर्दर्शितम् ।
पृ. २३ पं. १३ अतएव - कारणस्य कार्याभाववद्वृत्तित्वेनानैकान्तिकत्वात्कार्याननुमापकत्वादेव सर्वस्य कारणस्य कार्यानुमापकत्वाभ्युपगमे भवतः शङ्का सत्यैव परं नैवमम्युपगम्यते, किन्तु निश्चितकारणन्तरसाकल्याप्रतिबद्धसामर्थ्यस्य कारणविशेषस्यैव हेतुत्वमभ्युपेयते तस्य कार्याव्यभिचारित्वेन कार्यानुमापकत्व - मभ्युपगमे न कश्चिद्दोष इति समाधत्ते ।
पृ. २३ पं. १४ सत्यमिति, यस्मिन्निति - मनोन्नतत्वादिविशिष्टे मेघविशेषलक्षणवृष्टिकारणे इत्यर्थः ।
पृ. २३पं १४ सामर्थ्याप्रतिबन्धः - वृष्टिलक्षण कार्यजननसामर्थ्यस्य न केनचित्प्रतिकूलप्रबलवाय्वभिघातादिलक्षणप्रतिबन्धकेन प्रतिबन्धः ।
पृ. २३ पं. १४ कारणान्तरसाकल्यम् - वृष्टिकारणानुकूलवाय्वादिसमवधानम् ।
पृ. २३ पं. १५ निश्चेतुं शक्यते - वृष्टिप्रतिबन्धकः कोऽपीदान नास्ति, वृष्टयनुकूलवाय्वादिसमवधानञ्चास्मिन्मेघविशेषे वर्त्तते इत्येवं निश्चयो लिङ्गविशेषादिना कर्तुं शक्यते ।
पृ. २३ पं. १५ तस्यैव - तादृशमेघविशेषादेरेव ।