________________
१. प्रमाणपरिच्छेदः । पृ. २३ पं. ४ प्रतिषेधसाधकश्च-अभावरूपसाध्यसाधकश्च । विधिरूपसाध्यसाधकस्य विधिरूपहेतोः प्रकारानुपदशयति ।
पृ. २३ पं. ४ तत्रेति-विधिसाधकातिषेधसाधकविधिरूपहेत्वोमध्य इत्यर्थः।
पृ. २३ पं. ४ आद्यः-विधिसाधको विधिरूपो हेतुः ।
पृ. २३ पं. ४ षोढा-षट्प्रकारः, षड्विधत्वञ्च व्याप्य-कार्य-कारण पूर्वचरो-तरचर-सहचरभेदाज्ज्ञेयम् , तान् प्रकारान् क्रमेण निदर्शनोपदर्शनद्वारा भावयति । तद्यथेति ।
विधिसाधक विधेयव्याप्यं भावरूपहेतुमुदाहारति यथेति शब्देऽअनित्यत्वलक्षणभावधर्मो भावात्मकेन प्रयत्नान्तरियकत्वेन हेतुना साध्यते प्रयत्नान्तरियकत्वञ्च नानित्यत्वस्य कार्यकारणादिरूपं, किन्तु यत्रयत्र प्रयत्नानन्तरियकत्वं वर्तते तत्र अनित्यमपि वर्तत इत्यतः प्रयत्नानन्तरियत्वमनित्यत्वस्य व्याप्यमिति । ननु साध्येहत्वोव्याप्यव्यापकभावे सत्येव व्यापिग्रहणतः सर्वस्यानुमानस्योद्भवइति हेतुमात्रस्यैव साध्यव्याप्यरूपतेति प्रथमभेद एव सर्वेऽपि भेदास्सन्निविष्टा इति कार्यकारणादिहेतूनां प्रकारान्तरत्वन स्यादित्यत आह ।
पृ. २३ पं. ६ यद्यपीति-कार्याधनात्मकव्याप्यस्यैव व्याप्यत्वेन व्याप्यात्मकहतुसया विवक्षितत्वमितिकार्यादि हेतूनां न व्याप्यहतावन्तर्भाव इत्यर्थः । एवं सति कार्यादिवत्स्वभावहेतुरप्यधिको वक्तव्यो भवति, तथा च विधिसाधकविधिहेतोस्सप्तविधत्वं स्यादित्यत आह ।
पृ. २३ पं. ७ वृक्षः शिंशपाया इत्यादेरिति-वृक्षस्वभावा शिंशपा यदि वृक्षस्वरूपमतिपतेत् वृक्षसामग्री वाऽतिपत्य जायेत, स्वस्वरूपमेवातिपतेत् स्वसामग्रीवाऽतिपत्य जायतेतिविपक्षबाधकानिष्टप्रसङ्गतस्तादात्म्येन वृक्षव्याप्यतया निर्णीतस्य शिशपालक्षणस्वभावहेतोः कार्यादिभिन्नत्वाद्वयाप्यहेतावेवान्तर्भाव इति न तमुपादाय विधिसांधकविधिहेतोस्सप्तविधत्वप्रसङ्ग इत्यर्थः । विधिसाधकं द्वितीयंकायरूपविधिहेतुं दर्शयति ।
पृ. २३पं. ८ कश्चित्कार्यरूपइति-धूमइति-कार्यरूपो विधिस्वरूपो धूमहेतुरित्यर्थः, गमकत्वे सत्येव हेतुत्वमिति तद्भावयति ।