________________
१७८
जैनतर्कभाषा। पृ. २२ पं. २८ पक्षादिति-आदिपदाद्धेतुदृष्टान्तोपनयनिगमनानां ग्रहण तथा च यः पक्षस्वरूपे विप्रतिपन्नस्तम्प्रति पक्षशुद्धिरपि यस्तु हेतुस्वरूपे विप्रतिपद्यते तम्प्रति पक्षशुद्धिहेतुशुद्धी द्वे अपि यस्तु दृष्टान्तस्वरूपेऽपि विवादग्रहितस्तम्प्रति पक्षहेतुदृष्टान्तशुद्धयस्तिस्रोऽपि, यस्तूपनयस्वरूपेऽपि विवादमाविष्करोति तम्प्रति पक्षहेतुदृष्टान्तोपनयशुद्धयश्चतस्रोऽपि यस्तु निगमनस्वरूपेऽपि विवादाचान्तमतिस्तम्पति पक्षहेतुदृष्टान्तोपनयनिगमनशुद्धयः पश्चापि प्रयोक्तव्याः, अपिना पक्षादीनां पञ्चानामुपग्रहः तथा च यनिष्पन्नं तन्निगमयति ।
पृ. २३ पं. १ सोऽयमिति । दशावयबो-पञ्चप्रतिज्ञादयः पञ्चपक्षशुयादयः तेषां मेलनेन दशावयव इत्यर्थः। पक्षशुद्धयादिकं च स्याद्वादरत्ना. करे व्यावणित, तथा च तद्रन्थः " तत्र वक्ष्यमाणप्रतीतसाध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः अभिधास्यमानासिद्धयादि हेत्वाभासोद्धरणं हेतुशुद्धिः, प्रतिपादयिष्यमाणसाध्यविकलत्वादिदृष्टान्तदूषणपरिहरणंदृष्टान्तशुद्धिः उपनयनिगमनयोस्तु शुद्धी प्रमादान्यथाकृतयोस्तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके वाक्ये विज्ञेये इति ।
॥अथ हेतुविभागः ॥ हेतुप्रकारानुपदर्शयति
पृ. २३ पं. ३ स चायमिति-अनन्तरनिरूपितस्वरूपो हेतुःपुनरित्यर्थः हेतोर्यथा साध्योपपत्त्यन्यथानुपवर्तिम्यां प्रयोगे द्वैविध्यं तथाप्रकारेऽपि द्वैविध्यमित्यभिधानाय पुनरर्थकश्चकारः।
पृ. २३ पं. ३ विधिरूपः-भावरूपः ।
पृ. २३ पं. ३ प्रतिषेधरूपः-अभावरूपः । प्रथमोद्दिष्टत्वाद्विधिरूपहेतुं विभजते।
पृ. २३ पं. ३ तत्रेति-विधिरूपनिषधरूपहेत्वोर्मध्ये इत्यर्थः ।
पृ. २३. पं. ४ विधिसाधक:-भावरूपसाध्यसाधकः ।