________________
૧૮૮
जैनतर्कभाषा पृ. २५ पं. १४ अथेति-परं-प्रतिवादिनम्-प्रति-सम्प्रति-पतिवादि. नम्प्रति समाधत्त ।
पृ. २५ पं. १५ गौणमिति-तर्हि गौणमसिद्धत्वमित्यन्वयः । गौणत्वमेव निदर्शनोपन्यासेन द्रढयति ।
पृ. २५. पं. १६ नहि-अस्य तदाभास इत्यनेनान्वयः, यथा तवतो यदा रत्नादिन प्रतीयते तत्परीक्षकाभावात् तदानीमपि परमार्थतो रत्नाभासस्स न भवति किन्तु तदानीं परीक्षाऽविदग्धैः वस्तुतो रत्नरूपोऽपि सन् रत्नाभास इति व्यवहियते, गौणमेव, तस्य रत्नाभासत्वं, तथा वस्तुतः प्रमाणविषयस्य प्रमाणोपन्सासात्पूर्व प्रतिवादिनः प्रमाणविषयत्वेनाप्रतिभासमानस्यापि हेतोरसिद्धोऽयं हेतुरित्येवंव्यवहारेण गौणमेवासिद्धत्वं तद्वलान मुख्यो हेत्वाभासोऽयं भवितुमर्हतीत्यर्थः किञ्च प्रतिज्ञाविरोधप्रतिज्ञासन्यासप्रतिज्ञान्तरादिनिग्रहस्थानानाम्मध्ये हेत्वाभासस्यापि परिमणनादन्यतरासिद्धरूपहेत्वाभासलक्षणनिग्रहस्थानावाप्तितो वादी निगृ. हीतस्तत्परिहारार्थ न तत्र प्रमाणोपन्यासं कर्तुमर्हति निग्रहान्तत्वाद्वादस्य, अन्यथा परापरविचारधाराप्रवृत्तितोऽनवस्थानात्कथान्तं न कोऽपि गच्छेदिति जयपराजयव्यवस्थैवोच्छिद्यतेत्याह ।
पृ. २५ पं. १७ किश्चेति-न चेत्यस्य युक्तमित्यनेनान्वयः । पृ. २५ पं. १९ नापि-इत्यस्य युक्तमित्यनेनान्वयः । अन्यत्स्पष्टम् ।
पृ. २५ पं. २० अन्रोच्यत इति-उक्तान्यतरासिद्धहेत्वामासानुपचिशकायां प्रतिविधानमभिधीयत इत्यर्थः ।
पृ. २५ पं. २० सम्यग्धेतुत्वम्-स्वोपन्यस्तहेतोस्सद्धेतुत्वम् ।
पृ. २५ पं. २० प्रतिपद्यमानोऽपि-जानमपि, एतावता न तस्य पायसिद्धत्वमाविष्कृतम् , तहिं येन प्रमाणेन स्वयं तं स्वीकरोति तत्पमाणोपदर्शनेन परमपितं स्वीकारयिष्यतीति प्रतिवादिसिद्धोऽप्ययमत आह । ,
५. २५ पं. २१ तत्समर्थनेति-वत्साधकम्पाम्या पूर्वमनमवपक्षमासीदेव,