________________
१. प्रमाणपरिच्छेदः ।
१७५
पृ. २२ पं. १२ अनयोरिति-साध्योपपत्त्यन्यथानुपपत्योरित्यर्थः। अन्यस्पष्टम् । पक्षहेतुवचनात्मकमनुमानमिति प्रागुक्तं तदेव व्यवस्थापयति पक्षेत्या दिना एवकारोद्भावनप्रयोजनमाह ।
पृ. २२ पं. १४ न दृष्टान्तादिवचनमिति-दृष्टान्तादिवचनं न परप्रतिपत्यङ्गमतो नैयायिकस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्कपश्चावयवस्य मीमांसकस्य प्रतिज्ञाहेतूदाहरणात्मकावयवत्रिकस्य उदाहरणोपनयनिगमनलक्षणावयवत्रयस्य वा बौद्धस्योदाहरणोपनयात्मकावयवद्वयस्य च परप्रतिपत्यङ्गतया परार्थानुमानत्वकथनमयुक्तमित्यावेदितम् , यतः स्वाभीष्टसाध्यप्रतिपत्तिर्भवति तदेवाभिधातव्यं, पक्षहेत्वभिधानतस्सा भवति, ततस्तस्यैवपरप्रतिपत्त्यङ्गत्वादभिः धानं युक्तमित्याह ।
पृ. २२ पं. १५ पक्षहेतुवचनादेवेति-ननु व्याप्तिग्रहार्थ तत्स्मरणार्थवा दृष्टान्तवचनस्याप्यावश्यकता व्याप्तिरूपसाध्यहेतुसम्बन्धस्मरणमन्तरेणानुमानात्मकपरप्रतिपत्तेरनुदयादित्यत आह ।
पृ. २२ पं. १५ प्रतिबन्धस्येति । तत्स्मरणस्यापि-प्रतिबन्धस्मरणस्यापि, पक्षवचनरूपप्रतिज्ञया साध्यस्य हेतुवचनतो हेतोश्च ज्ञाने सति पूर्व गृहीततदुभयव्याप्तिरूपसम्बन्धस्य प्रतिवादिनः सम्बन्धिद्वयज्ञानत एवतत्सम्बन्धस्मरणस्य सम्भवेन तदर्थ दृष्टान्तवचनोपन्यासस्यानावश्यकत्वात , पूर्वमगृहीतव्याप्तिकस्य तु प्रतिवादिनो दृष्टान्तेऽपि पूर्वव्याप्तेरग्रहणेन तदुपन्यासेऽपि कथमत्रापि हेतुसत्त्वेऽवश्यसाध्यसत्त्वं येनाहमत्र निरुक्तसाध्यसाधनयोाप्तिमवधारयामीति प्रतिवादिजिज्ञासाया अनुपशान्तेस्तदुपशमनार्थ प्रकृतस्य हेतोः प्रकृतसाध्येन सहाविनाभावस्य साधनरूपसमर्थनं तयोः कार्यकारणभावतादात्म्यादिप्रतिबन्धग्राहकप्रमाणतः प्रतिवादिन-प्रतिवादिनाऽवश्यमेव कर्त्तव्यमिति दृष्टान्तानुप-न्यासेऽप्युक्त समर्थनत एव व्याप्ति ग्रहणतस्साध्यप्रति पत्तिसम्भवे तदनङ्गस्य दृष्टान्तवचनस्योपन्यासोऽनावश्यक इत्याह ।
पृ. २२. पं. १७ असमर्थितस्येति-साध्यहत्वोरविनाभावावच्छेदकतयाऽसाधितस्य ।