________________
१७६
जैनतर्कभाषा पृ. २२ पं. १७ तत्समर्थनेनैव-हेतोः स्वासाध्येन सहाविनाभावसाधनेनैव ।
पृ. २२ पं. १७ अन्यायासिद्धेश्व-दृष्टान्तोपनयनिगमनवचनोपन्यासस्यान्यथासिद्धेश्वाकिं समर्थनमित्याकाङ्क्षायामाह ।
पृ. २२ पं. १८ समर्थनं हीति । तत एव-निरुक्तसमर्थनत एव,तरिक दृष्टान्तादिवचनं कमपि प्रतिवादिनम्प्रति न प्रयोक्तव्यमेव, तथा सत्येवमभ्यु पगच्छतस्स्याद्वादवादिन एकान्तवादाभ्युगमादनेकान्तवादव्याकोप इत्यत आह ।
पृ. २२ पं. २१ मन्दमतीस्त्विति-अतिव्युत्पन्नम्प्रति हेतुप्रयोगमात्रस्य तदन्यव्युत्पन्नम्प्रति पक्षहेतूभयप्रयोगस्य मन्दमतिप्रतिवादिव्युत्पादनार्थ दृष्टान्तादि प्रयोगस्योपयोगम्भावयति ।
पृ. २२ प. २२ तथाहीति-निर्णीतः पक्षस्साध्यविशिष्टो धर्मी येनप्रतिवादिना सः। ___ पृ. २२ पं. २२ निर्णीतपक्षः दृष्टन्तेति-दृष्टान्तवचनेन स्मृतिविषयःकर्तव्यो यः प्रतिनिबन्धस्तस्य ग्राहकं यत्तांत्मकम्प्रमाणं तस्य स्मरणे यो निपुणः दृष्टान्तवचनमन्तरेणापि प्रतिबन्धग्राहकतर्कप्रमाणं स्मर्तुं समर्थ इत्यर्थः ।
पृ. २२ पं. २३ अपरेति-उपनयनिगमनलक्षणावयवयोरभ्यहने स्वयं तत्स्वरूपकल्पने यः समर्थः, भवितव्यमत्र ईदृशेनोपयेन ईदृशेन च निगमनेने. त्येवंस्वरूपाभ्युहने समर्थ इत्यर्थः। तथा च साध्यविशिष्टधर्मिविशेषप्रतिपत्तिलक्षणप्रयोजनस्य क्षयोपशमविशेषादेव भावात्प्रतिज्ञोपन्यासस्य व्याप्तिग्राहकतर्कस्मरणलक्षणप्रयोजनस्य कारणान्तरादेव सम्पन्नत्वादृष्टान्तोपन्यासस्य, उपनयनिगमनयोस्वयमप्यूहनात्तदुभयोपन्यासस्यानुपयोगे व्यवस्थिते तम्प्रति निरुक्तप्रतिवादिनम्प्रति ।
पृ. २२ पं. २४ हेतुरेव प्रयोज्यः-हेतुवचनमात्रं प्रयोक्तव्यम् उक्तप्रतिवाद्यपेक्षयाकिञ्चिन्न्यूनव्युत्पत्तिमन्तं प्रतिवादिनम्प्रति पक्षहेतुवचनद्वयस्य प्रयोक्तः व्यत्वमनुशास्तियस्यत्विति ।