________________
जैनतर्कभाषा । व्याप्यस्यानेकवृत्तित्वस्यावश्यंनिवृत्तेः, न च तन्निवृत्तिरभ्युपगतेतिलब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्रमौलो हेतुः,यथा यदनेकवृत्तितदनेकम्, अनेकवृत्तिवसामान्यमिति, एकत्वस्य हि विरुद्धमनेकत्वं, तेन व्याप्तमनेकवृत्तित्वं तस्योपलब्धिरिह, मोलेत्वं चास्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात, न चायमुभयोरपि न सिद्धः, सामान्ये जैनयोगाभ्यां तदभ्युपगमात् , ततोऽयमेव मौलौ हेतुरयमेव वस्तुनिश्चायकः " इति बुद्धिरचेतनेत्यादी चेत्यायेतद्ग्रन्थफक्किकाऽपि रत्नाकरस्थशङ्काग्रन्थमवतरणरूपतया मनसि संस्थाप्य तत्समाधानरूपैव ग्रन्थकतोद्भाविता, तथा च तद्ग्रन्थः " नन्वेवं प्रसङ्गेऽङ्गीक्रियमाणे बुद्धिरचेतना उत्पत्तिमत्वादित्ययमपि साङ्खयेन ख्यापितः प्रसङ्गहेतुर्भविष्यति, तथा हि यदि बुद्धिरुत्पतिमती भवद्भिरभ्युपगम्यते तदानी तद्वयापकमचैतन्यमपि तस्याः स्यान्न चैवमतो नोत्पत्तिमत्यपीयम् इति प्रसङ्गविपर्ययहेतोरित्यायेतद्ग्रन्थसमाधानग्रन्थसमानाभिप्रायक श्चरत्नाकरग्रन्थो यथा “ प्रसङ्गविपर्ययहेन्तोर्मोलस्य चेतन्याख्यस्य साङ्. ख्यानां बुद्धावपि प्रतिषिद्धत्वात् , चैतन्यस्वीकारेऽपि नानयोः प्रसङ्गविपययोर्गमकत्वं, अनेन प्रसङ्गविपर्ययहेतो ाप्तिसिद्धिनिबन्धस्य विरुद्धधर्माध्यासस्य विपक्षे बाधकप्रमाणस्यानुपस्थापनात । चैतन्योत्पत्तिमत्त्वयोर्विरोधाभावत , एवं हि अचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद्यदि चैतन्येन तस्य विरोधः स्यात् , नान्यथा, न चैवमिति । नैतौ प्रसङ्गतद्विपर्ययौ गमको भवतः" इति । परार्थानुमाने हेतुप्रयोगप्रकारमुपदर्शयति ।
पृ. २२. पं. १० हेतुरिति-अस्य प्रयोक्तव्य इत्यनेनान्वयः।
पृ. २२ पं. १० साध्योपपत्त्यथानुपपत्तिभ्याम्-साध्ये सत्येव हेतोरुपपत्तिः साध्योपपत्तिः, साध्यं विना हेतोरनुपपत्तिरन्यथानुपपत्तिः ताभ्याम् , । द्विधा द्विप्रकारः । एतत्प्रकारद्वयं क्रमेणोदाहरति ।
पृ. २२ पं. ११ यथेति असत्यनुपपत्तेः-वावसति धूमस्यानुपपत्तेः, यत्र परेण धूमादिति प्रयुज्यते, तत्र स्याद्वादिना वह्नौ सत्येव धूमस्योपपत्तेः, वहावसति धूमस्यानुपपत्तेरिति वा प्रयुज्यते, वाकारेणैतत्कथयति यदेकप्रयोगतोऽपि प्रकृतार्थसिद्धिनिर्वाहाद्वयोर्मध्यात्कामचारमेकस्य प्रयोगो विधेय इत्येव स्पष्टयति ।