________________
प्रमाणपरिच्छेदः ।
१७३
नव्वेवं बौद्धम्प्रति बुद्धिरचेतना उत्पत्तिमत्वादिति साङख्यानुमानमपि प्रसङ्गविपर्ययपर्यवसाय्येवास्तु, यतस्तत्रापि बुद्धिर्यदि चेतना स्यादुत्पत्तिमती न स्यादित्यापादनाङ्गस्य यच्चेतनं न तदुत्पत्तिमत्, चेतना च बुद्धिरित्यवयवद्वयात्मकप्रसङ्गसाधनस्यास्त्येव सम्भवः, बुद्धेरुत्पत्तिमत्त्वाभावश्च न परस्येष्टस्ततो विपर्ययः, बुद्धिरचेतना उत्पत्तिमत्त्वादिति सम्भवतीत्यत आह ।
पृ. २२ पं. ६ बुद्धिरचेतनेत्यादौ चेति-उक्तावतरणदिशा मौलहेतुरुत्पत्तिमत्वमेवायातं तच्च न साङ्ख्यस्य स्वमतसिद्धम् , अन्यागमप्रसिद्धन्त्वप्रसिद्धकल्पमेवेति न तथोपन्यासो युक्त इति दोषो न व्यावर्त्तते । बुद्धिर्यद्युत्पत्तिमती स्यान्चेतना न स्यादित्यापादनाङ्गस्य यदुत्पत्तिमत्तन्न चेतनं, यथा घटादि, उत्पत्तिमती च बुद्धिरित्यवयवद्वयात्मकप्रसङ्गसाधनस्य प्रथममुपन्यासस्तत्र बुद्धेरचैतन्यनबौद्ध स्येष्टमितिविपर्ययः, बुद्धिर्नोत्पतिमती चेतनत्वादिति,अत्र यत्र चेतनत्वं तत्रोत्पत्तिमत्त्वाभाव इति व्याप्तिस्साङ्ख्यस्य सिद्धा,चेतनत्वमपि पुरुषे साङ्ख्यस्य प्रसिद्धं, परं साङ्ख्यमते उत्पत्तिमत्वाभावस्सर्वत्रैव चेतनेऽचेतने चेति चेतनत्वे उत्पत्तिमत्त्वाभावस्य नान्ताप्तिरतस्तत्राप्रयोजके हेतौ परेणेत्थं वक्तुं शक्यते । उत्पत्तिमत्यप्यस्तु बुद्धिर्चेतनाऽप्यस्तु न हि चेतनत्वस्योत्पत्तिमत्त्वविरोधे किञ्चिन्मानं विद्यते साङयस्येति, विरुद्धधर्माध्यासलक्षणविपक्षबाधकप्रमाणस्यानुस्थापनादुपस्थापयितुमवश्यत्वाद्विपर्ययानुमानहेतुसाध्ययोर्व्याप्तिसिद्धयभावे तयोर्व्याप्यव्यापक भावनिबन्धनस्य प्रसङ्गे विपर्ययसाध्याभावरूपव्यापकाभावहेतुकविपर्ययहेत्वाभावरूपव्याप्याभावलक्षणसाध्यसाधनकारणव्याप्तिग्रहस्यासिद्धथा प्रसङ्गस्याप्यन्याय्यत्वम् । दर्शितप्रसङ्गविपर्ययसाधनपरताऽपि बुद्धिरचेतना उत्पत्तिमत्त्वाद्घटवदिति साङथानुमानस्योदक्षरत्वान युक्तमित्यर्थः ।
पृ. २२. पं. ९ वदन्ति-स्याद्वादरत्नाकरे श्रीमन्तो देवसूरयो वदन्ति, तथा चैतत्तत्त्वबुभुत्सुभिः स्याद्वादरत्नाकरोऽवलोकनीयः। तत्र प्रसङ्गविपर्ययरूपमौलहेतोरेव तन्निश्चायकत्वादित्यायेतद्ग्रन्थस्थसन्दर्भाभिप्रायसमानाभिप्रायकः पाठश्वेत्थं " प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम् , ऐकान्तिकैकरूपस्यानेकव्यक्तिवर्तित्वविरोधात् , अनेकत्रवृत्तेरनेकत्वं व्यापकं, तद्विरुद्धश्च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नानेकवृत्तित्वं स्यात्, विरोध्यक्यसद्भावेन व्याप्येन व्यापकस्यानेकत्वस्य निवृत्या