________________
जैनतर्कभाषा ___ पृ. २२ पं. ४ प्रसङ्गविपर्ययरूपस्य-एतत्प्रसञ्जन नैयायिकस्येष्टापादनरूपं, यतः सामान्यस्यानेकधर्मिसम्बन्धित्वाभावे सामान्यरूपतैव न स्यात् । नित्यत्वे सति अनेकसमवेतस्य सामान्यलक्षणत्वेन तेनाभ्युपगमात् , ततोऽस्य प्रसङ्गस्य विपर्ययपर्यवसानं विपर्ययश्च प्रकृते अस्ति चानेकसम्बन्धिसामान्य ततो न सर्वथैकमिति अत्र च यदनेकसम्बन्धि तन्न सर्वथैकमिति तत्र चानेकसम्बन्धित्वलक्षणहेतुर्न न्यायागमकसिद्धः किन्तु जैनागमसिद्धोऽपि स विपर्ययहेतुः स्वतन्त्रसाधनरूपत्वान्मौलहेतुरभिधीयते तस्यैव । एवकारेण प्रसङ्ग हेतोयंवच्छेदः ।
पृ. २२ पं. ४ तन्निश्चायकत्वात्-वस्तुनिश्चायकत्वात् , सामान्यगतसर्वथैकत्वाभावश्च विपकये साध्यः स च वस्त्वेवेति । ननु स्वतंत्रसाधनत्वाद्विपर्ययहेतुरेव प्रथमतः प्रयोक्तव्योऽलंप्रसङ्गहेतूपन्यासेनेत्यंतआह ।
पृ. २२ पं. ४ अनेकवृत्तित्वेति-यत्र यत्रानेकवृत्तित्वं तत्रानेकत्वमितिनियामादनेकवृत्तित्वस्य व्यापकमनकत्वं नैयायिकेन सामान्ये सर्वथैकत्वमभ्यु पगच्छताऽनेक वृत्तित्व व्यापकस्यानेकत्वस्य निवृत्तिरभ्युपगतैव तयैवेति अनेकवृत्तित्वव्यापकानेकत्वनिवृत्त्यैवेत्यस्यार्थः । तथा च यत्र व्यापकाभावस्तत्र व्याप्याभाव इति व्याप्तेः।।
पृ. २२ पं. ५ तन्निवृत्तेः-अनेकत्वव्याप्यस्यानेकवृत्तित्वस्य निवृत्तेः सामान्येऽभावस्य ।
पू. २२ पं. ६ मौलहेतुपरिकरत्वेन-यदनेकवृति तदनकं, अनेकवृति च सामान्यं, तस्मादनकमिति स्वतन्त्रस्य विपर्ययानुमानस्स हेतुत्वेन मौलहेतुरनेकवृत्तित्वं, तस्य परिकरत्वेन व्यतिरेकव्याप्तिरूपतयाऽङ्गत्वेन अन्वयव्याप्तिवद्वयतिरेकव्याप्तेरपि साधनाङ्गत्वात् , यथा पर्वतो वह्निमान् धूमादित्यत्र यो यो धूमवान् स वह्निमानित्यन्वयव्याप्तिवद्यो वह्वयभाववान् स धूमाभाववानिति व्यतिरेकव्याप्तिः साधनाङ्गं, एवञ्च ।
पृ. २२ पं. ६ प्रसङ्गोपन्यासस्यापि-नैयायिक प्रति यो जैनेन क्रियते यत्सर्वथैकंतमानेकत्र सम्बध्यते तथा च सामान्यमिति प्रसङ्गोपन्यासस्तस्यापि ।
पृ. २२ पं. ६ न्याय्यत्वात्-न्यायादनपेतत्वात् युक्तत्वादिति यावत् ।