________________
१. प्रमाणपरिच्छेदः। च्छावादिना वादेऽपि प्रतिवादिमन्दमतीनधिकृत्य भवत्येव, मन्दमतयोऽपि स्वाभिमतशास्त्रार्थसत्यत्वाभिमानाग्रहपहिलाः स्वेष्टशास्त्रप्रतिपक्षशास्त्रसमर्थनपरायणवादिविजिगीषया कथायामुपसर्पन्त्येवेति तान्प्रति प्रतिनियतर्धमिधमतया साध्यस्य प्रतिपत्त्यर्थ वादेऽपि प्रतिज्ञोपन्यासो युक्तएवत्याह ।
पृ. २१. पं. २० परानुग्रहार्थम् तत्प्रयोगश्च-पक्षप्रयोगश्च ।
पृ. २१. पं. २२ तत एव-प्रतिज्ञावाक्यादेव, परार्थानुमानस्यान्यवाद्यभिमतं लक्षणं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. २१. पं. २३ आगमात्परेणैव-प्रतिवादिनैव । पृ. २१. पं. २३ आगमात्-स्वाभ्युपगतशास्त्रात् । पृ. २१. पं. २३ ज्ञातस्य-प्रसिद्धस्य हेतोरिति दृश्यम् ।
पृ. २१. पं २३ वचनं-वादिनोपन्यस्तं वचनं तथा च प्रतिवाद्यभ्युपगतागमसिद्धस्य हेतोः साध्यप्रतिपत्त्यर्थ वचनं परार्थानुमानमित्यर्थः। उदाहरति
पृ. २१. पं. २३ यथेति बुद्धिः-प्रकृतेः प्रथमः परिणामो महत्तत्वापराभिधानमन्तःकरण, साञ्चेतना, तस्याः कतृत्वेऽपि न चैतन्यं, कूटस्थनित्यस्य पुरुषस्यैव चैतन्य, तत्सम्बन्धादचेतनाऽपि चेतनेव भवतीत्युपपादनाय साध्यते,कनुरेव चैतन्यमित्यभ्युपगन्तारं नैयायिकम्प्रति साङ्ख्यानुमानं, साङख्येन वादिना कृतमनुमानम् । तत्र निरुक्तलक्षणस्य सङ्गमनायाह ।
पृ. २१ पं. २४ अत्र हि-निरुक्तसाङ्ख्यानुमान इत्यर्थः । हि-यतः । बुद्धाविति प्रकृतत्वादुक्तं, सत्कार्यवादिना साङ्ख्येन पूर्वमसतः सत्त्वलक्षणा ऽऽद्यक्षणसम्बन्धापराभिधानोत्पतिः कुत्रापि नेष्यते, किन्तु असत्कार्यवादिना नैयायिकादिनैवोक्तोत्पत्तिमत्त्वं स्वीक्रियते साङख्यस्य तु तत्स्थाने आविर्भावाद्ध्वंसस्थाने तिरोभावाद्वयवहृतिः। तथा च नैयायिकाद्यभ्युपगतशास्त्रप्रसिद्धोत्पतिमत्त्वलक्षणहेतुवचनमिदं परार्थानुमानमित्यर्थः । प्रतिवाद्यागमो न वादिना वाद्यागमो न प्रतिवादिना प्रमाणतयाऽभ्युपगम्यते इति तत्तदागममात्रप्रसिद्धो
૨૨