________________
१७०
जैनतर्कभाषा । हेतु!भयवादिप्रसिद्धः उभयवादिप्रसिद्धस्यैव च हेतुता युक्तेति न पराभिमतमुक्तलक्षणं सम्यग न वा तल्लक्ष्यतया उपढौकितं तथेत्याह । तदेतदपेशलमिति निरुक्तपरमतमसुन्दरमित्यर्थः । अथवा नैरात्म्यवादिनं बौद्धम्एत्येवैतदनुमानं साङ्ख्यस्य, यतो नैरात्म्यवादिना बौद्धनात्मस्थाने आलयविज्ञानसन्ततिरेवा. भिषिक्ता, तन्मते ज्ञानस्वरूपा बुद्धिरेव चेतना स्वप्रकाशत्वात् , अतस्तन्मताया बुद्धरेवाचैतन्यं साङख्येन साध्यते, बौद्धमते सर्वस्य क्षणिकत्वान्तिःपातिन्या बुद्धेरपि क्षणिकत्वं, क्षणिकत्वाच्चोत्पत्तिमत्त्वमपि तन्मतसिद्धं ततस्तदागमसिद्धोत्पत्तिमत्वेन बुद्धेरचैतन्यसाधनमुक्तदिशा परार्थानुमानम् अन्यत्सर्व दर्शितदिशा ऽवसेयम् । उक्तासाङ्ख्यलक्षितपरार्थानुमानलक्षणस्यासुन्दरत्वे हेतुमाह ।
पृ. २१. पं. २६ वादिप्रतिवादिनोरिति--साङ्ख्यनैयायिकयोरिति, साङ्ख्यबौद्धयोरितिवाऽर्थः।
पृ. २१. पं. २६ आगमेति-साङ्ख्यागमप्रामाण्ये बौद्धस्य विप्रतिपत्ते बौद्धागमप्रामाण्ये साङ्ख्यस्य च विप्रतिपत्तेरित्यर्थः। तथा च बौद्धोगमसिद्धमुत्पत्तिमत्त्वं वस्तुतोऽसिद्धमेव साङ्ख्यस्येतिपरप्रतिपच्यर्थं तद्वचनं न घटत एवेति, कथं तस्य परार्थानुमानत्वमिति भावः ।
पृ. २१ पं. २७ अन्यथा-वादिप्रतिवादिनोः परस्परागमपामाण्यतिप्रतिपत्यभावे।
पृ. २१ पं. २७ तत एव-आगमादेव, साङख्यागमे कुटस्थपुरुषभिन्नसर्वस्यैवाचैतन्यं प्रतिपादितमस्तीति साङ्ख्यागमत एव प्रतिवादिनो नैयायिकस्य कर्तुरचैतन्यस्य प्रतिवादिनो बौद्धस्य बुद्धेरचैतन्यस्य सिद्धिप्रसङ्गतः तम्प्रति तत्साधनायानुमानप्रणयनं साङख्यस्य विफलमेव प्रसज्यतेति भावः । यद्यपि परागमप्रतिपादितार्थस्य युक्तत्वमयुक्तत्वं वा यावन्न परीक्षितं तावत्सा. मान्यतः शास्त्रत्वेन प्रामाण्यं परकीयागमस्यापि पराभ्युपगमविषयस्तथापि परीक्षादशायां तत्प्रतिपादितार्थस्यायुक्तत्वव्यवस्थितौ बाधितार्थकत्वेनाप्रामाण्य. स्यैव व्यवस्थित्या प्रामाण्याभ्युपगमस्य बाधादितिकथाकाले परस्परशास्त्रार्थपरीक्षायां प्रस्तुतायां न परकीयागमप्रसिद्धं स्वतोऽसिद्धहेतुतयोद्भावनीयमिति तादृशहेतुवचनं न परार्थानुमानमित्याह ।