________________
१६८
जैनतर्कभाषा। पृ. २१ पं. १५ साध्यस्यापि तदर्थम्-साध्यस्य प्रतिनियतधर्मिताप्रतिप्रत्यर्थप्रपि ।
पृ. २१ पं. १६ पक्षवचनम् प्रतिज्ञावाक्यम् । पृ. २१ पं. १७ अन्यथा-विवादादेव पक्षस्य गम्यमानत्वात्पक्षस्याप्रयोगे।
पृ. २७ पं. १७ ममर्थनोपन्यासादेव-हेतुभावेऽवश्यंसाध्यस्य भाव इत्यस्य समर्थकं यदृष्टान्ते हेतुसाध्ययोरविनाभावपतिपादकं वचनं तत्समर्थनमुदाहरणमिति यावत् । तस्योपन्यासादुद्भावनादेव, गम्यमानस्य हेतोः यद्वयाप्यं तद्वयातुर्यद्धपकं तत्साध्यमितिनियमावयाप्यत्वेनायमेव हेतुरित्येवं ज्ञायमानस्य हेतोरपि ।
पृ. २१ पं. १८ अनुपन्यासप्रसङ्गात्-उपसंहारवचनेन यदुपन्यसनं तदभावापत्तेः मन्दमतिः प्रतिवादी उदाहरणवाक्यतो हेतुस्वरूपं नावधारयितुं शक्नोतीति तत्प्रतिपत्यर्थ यद्युपसंहारवचनस्यावश्यकत्वं यदि भवता मन्यते, तदा कश्चिन्मन्दमतिर्विवादतोऽपि पक्षं नावधारयितुं शक्नोतीति तत्प्रतिपत्यर्थ पक्षवचनस्याप्यावश्यकत्वमभ्युपगम्यतामित्याह ।
पृ. २१ पं. १८ मन्दमतिप्रतिपत्त्यर्थस्येति-प्रतिज्ञायाः प्रयोगो बौद्धशास्त्रेऽपि दृश्यते तच्छास्त्रमपि परप्रतिपत्त्यर्थ प्रवृत्तत्वात्परार्थमेव तथा च यदि प्रतिज्ञायाः न प्रयोगार्हत्वं तदा शाक्यशाखेऽपि तत्प्रयोगो न स्यादस्ति च शाक्यशास्त्रे तत्प्रयोगोऽतोऽन्यत्रापि तत्प्रयोगोऽवर्जनीय एव, अन्यथा कल्पनाया दृश्यानुसारित्वं भज्येत अदृश्यानुसारित्वञ्च प्रसज्येतेत्याह ।
पृ. २१ ५ १९ किञ्चेति-भवतामेव शास्त्रे प्रतिज्ञायाः प्रयोगः तद्बलानास्माभिस्तत्प्रयोगः कक्षीकरणीय इति यदि बौद्धो बूयात्तदा यच्छास्त्रं तेन प्रमाणी कृतं तत्राप्यस्याः प्रयोगों दृश्यते तद्दर्शनापलापस्तदप्रमाणता च वक्तुमशक्येत्याशयेनाह।
पृ. २१ पं. २० दृश्यते चेति-इयं प्रतिज्ञा शाक्यशाखेऽपि बौद्धदर्शनेऽपि मन्दमतीनां प्रतिनियतधार्मधर्मतया तत्तदभिमतार्थप्रतिपत्तितोऽज्ञानादिक निवर्त्ततामित्युपकृतीच्छया यदि शास्त्रे प्रतिज्ञावचनोपन्यासस्तहिं तादृशोपकृती