________________
१. प्रमाणपरिच्छेद ।
पृ. २१ पं. १३ पक्षप्रतीतावपि पक्षवचनप्रयोगमन्तरेणापि पक्षज्ञानेऽपि तथाच व्युत्पन्नमतिप्रतिवादिनम्प्रति न प्रयोक्तव्यं पक्षवचनमित्याशयः ।
१६७
पृ. २१ पं. १३ अन्यान्प्रति- व्युत्पन्नमतिभिन्नान्मन्दमतीन्प्रति वादिनः वादीन्प्रति तेषामूहापोहविकलानां पूर्वमीदृशीविप्रतिपत्तिः तत एतादृशोदाहरणादिवाक्यविन्यासस्तेनानेनैव पक्षेण भवितव्यमित्याद्यनुसन्धानासम्भवात् उदाहरणप्रयोगे सत्यपि किमिदं क्षणिकत्वे साध्ये साधम्र्योदाहरणं किं वाऽसच्चे साध्ये वैधम्र्योदाहरणमेतदित्यादिसंशयसम्भवाच्च ।
पृ. २१ पं. १३ अवश्य निर्देश्यत्वात- पक्षवचनस्यावश्यं प्रयोक्तव्यत्वात् तदन्तरेण मन्दमतीनां पक्ष प्रतीतेरसम्भवात्, यत्र च विप्रतिपत्त्यनन्तरमेव स्वपक्षसाधनाय परमुद्दिश्य परार्थानुमानं वचनलक्षणमारचयति वादी, तत्र मन्दमतेरपि कस्यचित्प्रतिवादिनः वादिप्रयुक्तोदाहरणादिलक्षणेनानुमानवाक्यावयवेनैकवाक्यतया गृह्यमाणाद्विप्रतिपतिलक्षण विवादादपि पक्षस्य प्रतिपत्तिसम्भवेन, तत्र तम्प्रति पक्षस्याप्रयोगोऽपि स्याद्वादिन इष्ट एवेति पक्षस्य प्रयोगाप्रयोगयोरनेकान्त एव विजयत इत्याह ।
पृ. २१ पं. १३ प्रकृतानुमानेति ततः - विवादात्, साध्यस्य प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थं बौद्धेनावश्यमेव पक्षवचनस्य प्रयोक्तव्यत्वमभ्युपगन्तव्यम् अन्यथा हेतोः प्रतिनियतधर्मिधर्मताप्रतिपत्यर्थमुपनयरूपस्योपसंहारवचनस्य प्रयोक्तव्यत्वमपि तत्कक्षीकृतं त्यक्तं स्यादुभयोस्समानत्वादित्याह ।
पृ. २१ पं. १५ अवश्यं च - ताथागतेनापि पक्षवचनमवश्यं चाभ्युपगन्तव्यमित्यन्वयः । तथागतो बुद्धस्तच्छिष्यस्ताथागतस्तेन बौद्धेनेत्यर्थः । हेतोः साधनस्य, प्रतिनियतधर्मी यत्र धर्मिणि साध्यं साध्यनीयं स तद्धर्मता तत्सम्बन्धिता तस्याः प्रतिपच्यर्थं पक्षे हेतुज्ञानार्थमिति यावत्, उपसंहारः पक्षसमीपे हेतोर्नयनं हेतोः पक्षसम्बन्धित्वं तस्य वचनं तत्प्रतिपादकवचनमुपनय इति यावत् ।
पृ. २१ पं. १५ तद्वत - हेतोः पक्षसम्बन्धित्वप्रतिपत्तये बौद्धेनोपनयो यथा ऽभ्युपगम्यते तथेत्यर्थः ।