________________
जैनतर्कभाषा ___ पृ. २१ पं. ११ अर्थबोधनात्-परेष्टस्य साध्यास्यानुमितिलक्षणज्ञानोत्पादनात् , परमतनिराकणपूर्वकखमतव्यवस्थापनरूपपरीक्षां परार्थानुमाने चिकीर्षन् ग्रन्थकारः परमतखण्डने यतमानः प्रथमं बौद्धमतं खण्डयितुं तन्मतमुपदर्शयति ।
पृ. २१ पं. ११ पक्षस्येति-साध्यवत्वेन पक्षप्रतिपादकप्रतिज्ञारूपपक्ष
वचनस्य।
पृ. २१ पं. ११ विवादादेवेति-निर्वत्तनीयतया कथाङ्गस्य संशयस्य जनकत्वेनादौ मध्यस्थेनावश्यकर्तव्याद्विप्रतिपतिलक्षणविवादात् शब्दादिः क्षणिको न वेत्याकारकात् , पक्षस्य, शब्दादिः क्षणिक इति सौगतप्रतिज्ञायाः शब्दादिः क्षणिको नेति नैयायाकदिप्रतिज्ञायास्तत्प्रातपाद्यार्थस्य वा, एवकारो विवादातिरिक्तस्वतन्त्रतत्प्रयोगं व्यवच्छिनत्ति, गम्यमानत्वादित्यत्राप्रयोग इत्यत्रच पक्षस्येत्यस्य सम्बन्धः।
पृ. २१ पं. ११ अप्रयोग-परस्यानुमित्यर्थ प्रयोक्तव्ये न्यायवाक्ये तद्घटकतया पक्षस्य न प्रयोगः।
पृ. २१ पं. १२ तन्न-एकान्तेन पक्षस्याप्रयोग इति बौद्धमतं न समीचीनमित्यर्थः । निषेधे हेतुमाह ।
पृ. २१ पं. १२ यत्किञ्चिदिति-विप्रतिपत्यनन्तरं पूर्व भवता वक्तव्यन्तः दनन्तरमनेनेत्यादिवचनव्यवहितात् पूर्व विप्रतिपत्तिलक्षणो विवादस्ततः कथाबहिर्भूतमेवोक्तवचनं ततो वादिना स्वपक्षस्थापनालक्षणकथारम्भस्तत्र निरुक्तवचनेन मध्यस्थितेन निरुक्तविवादो व्यवहितो भवत्येव तथाभूतात् ।
पृ. २१ पं. १२ ततो-विवादात् ।
पृ. २१ पं. १२ व्युत्पन्नमतेः-यत्सत्तक्षणिकं यथा घट इत्युदाहरणवाक्यप्रयोगात्सा शब्द इत्युपनयवाक्यप्रयोगादनेन वादिना शब्दादिः क्षणिक इति पक्ष एव नूनं परिगृहीत इत्यु हापोहकुशलबुद्धिशालिनः प्रतिवादिनः।