________________
१. प्रमाणपरिच्छेद
१६५
त्मकमहावाक्यत्वनैव, किन्त्वेतदन्यतरवाक्यत्वनेति बोध्यम् । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चन्यायावयवाः परार्थानुमानमिति नैयायिकाः । तत्र पतिज्ञाहेतुलक्षणमुपदर्शितमेव, साध्यहेत्वोरविनाभावप्रतिपादकं दृष्टान्तवचनमुदाहरणम् हेतुमत्तया पक्षस्य वचनमुपनय इति प्राचीनमते नव्यमते तु साध्यव्यातिविशिष्टहेतुमत्तया पक्षवचनमुपनयः, अवधित्वप्रतिपत्तये पक्षे साध्यस्य पुनर्वचनं निगमनम् । पर्वतो वह्निमानिति प्रतिज्ञा. धूमादिति हेतुः, यो यो धूमवान् स वह्निमान् यथा महानसं; यत्र यत्र धूमस्तत्र वह्निः यथा महानसं इति वा उदाहरणम् , इदश्चान्वयव्याप्तिप्रतिपादकत्वात्साधर्योदाहरणमिति व्यपदिश्यते । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा इदे, यो न वह्निमान् स धूमवानपि न भवति, यथा इद इति वोदाहरणं व्यतिरेकव्याप्त्युपदर्शकत्वाद्वैधर्योदाहरणमिति व्यपदिश्यते, धूमवाँश्च पर्वत इत्यर्थकं प्राचीनमते, नव्यमते तु वहिच्याप्यधूमवाँश्च पर्वत इत्यर्थकं तथा चायमितिवचनमुपनयः, वहिव्याप्यधूमवत्वात्पर्वतो वह्निमानित्यर्थकं तस्मात्तथेतिवचनं निगमनम् । अत्र साध्यस्याबाधितत्वप्रतिपत्तये पञ्चम्यन्तस्य घटकता, साध्यवाप्यहेतुमत्वे साध्यवत्वं स्यादेवेति न तद्बाध इत्यस्य ततोऽवगतेः । प्रतिज्ञाहेतूदाहरणानि उदाहरणोपनयनिगमनानि वा त्रीणि तत्र प्रयोक्तव्या इति मीमांसकादयः। उदाहरणोपनयौ द्वावेवावयवौ तत्र प्रयोक्तव्याविति बौद्धाः । अनुमानं प्रमाणं ज्ञानस्वरूपं, वचनश्च पौद्गालिकत्वाजडस्वरूपमिति तयोरत्यन्तविरोधे जाग्रति पक्षहेतुवचनस्यानुमानत्वोपदर्शनं न युक्तमित्याशङकाव्यवच्छित्तये आह ।
पृ. २१ पं. १० उपचारादिति-परस्य साध्यानुमितिरुक्तवचनाद्धेतुज्ञानादिद्वारा जायते इतिपरानुमितिकारणे उक्तावचने कार्यधर्ममनुमानत्वमुपचर्योक्तवचनं परार्थानुमानमिति व्यवड़ियत इत्यर्थः । एतदेव स्पष्टीकरोति ।
पृ. २१ पं. १० तेन-पक्षहेतुवचनेनेत्यर्थः । पृ. २१ पं. १० श्रोतुः-एवद्वचनं शृण्वतः परस्य ।
पृ. २१ पं. १० अनुमानेन-अनुमानद्वारा व्याप्तिस्मरणलिङ्गावगमद्वारेतियावत् ।