________________
जैनतर्कभाषा ।
Jx
आदर्त्तव्यः । तत्रापि इदानीं क्रमयौगपद्यनिरूपकत्वाभावस्य हेतुतयाऽर्थक्रियानियामकत्वाभावस्य साध्यतया नित्यत्वस्य साध्याधारधर्मितयाऽनुमतत्वात्तदनुसारेणैव व्याप्तिस्मरण हेतुग्रहणे वाच्ये । अनुमानाकरश्च नित्यत्वमर्थक्रियानियामकं न भवति, क्रमयौगपद्यनिरूपकत्वाभावादिति, तर्कोंप्यत्र नित्यत्वं यद्यर्थक्रियाया नियामकं भवेदर्थक्रियाया अनुपरम एव भवेत् कार्यमात्रस्य सदातनत्वं प्रसज्येतेति यावदिति नित्यत्वादाविति इदञ्च नित्यत्वं न कूटस्थनित्यत्वं तस्यैकान्तनित्यत्वपर्यवसितत्वेन जैनोपगमाविषयतया तत्पक्षत्वेऽसतख्यात्यापत्तेः, किन्तु अनित्यत्वसहचरितनित्यत्वरूपं कथञ्चिन्नित्वत्वमेव तव अनित्यत्वसाहचर्यावच्छेदेन क्रमयौगपद्यनिरूपकत्वेऽपि अर्थक्रियानियामकत्वेऽपि च तदभावावच्छेदेन तयोरभावादिति बोध्यम् । नित्यत्वादावित्यत्रादिपदादनित्यत्वपरिग्रहः अत्रापि साध्यहेतू निरुक्तावेव | तर्कस्तु अनित्यत्वं यदि अर्थक्रियानियामकं भवेत्कारणं कार्यानुय यि न भवेत् उपादानोपादेयभावादिश्च प्रतिनियतो न भवेदित्यादि। सर्वज्ञोऽस्तीत्यादावपि वस्तुत्वं यत्किञ्चित्पुरुषवृत्तिप्रत्यक्षात्मकै कज्ञानविषयत्वव्याप्यं धर्मत्वात्तद्धत्ववदिति सम्भवत्येवानुमानम्, अयं त्वविचारो गूढरहस्यत्वान्नाल्पझैरवधारयितुं शक्य इति बहुविध शास्त्रज्ञैरेवायं युक्तायुक्तविवेकायालोचनीय इत्युपदर्शयति ॥ इति सम्यग्निभालनीयमिति ॥ इति स्वार्थानुमानस्वरूपनिरूपणम् ॥
॥ अथ परार्थानुमानस्वरूपनिरूपणम् ॥ स्वार्थानुमानं निरूप्य परार्थानुमानं निरूपयति ।
पृ. २१. पं. १० परार्थमिति - अत्र परार्थमिति लक्ष्य निर्देशः, तच्चानुमानमित्यनेन सम्बध्यते तथा च परार्थानुमानमिति लक्ष्यं, पक्षहेतुवन्चनात्मकमिति लक्षणम्, पक्षवचनं साध्यवत्तया पक्षस्य प्रतिपादकं वचनं प्रतिज्ञेति यावत्, हेतुवचनं तृतीयान्तं पञ्चम्यन्तं वा किङ्गस्य प्रतिपादकं वचनं तच्च हेतुरित्यभिधीयते, तदुभयात्मकं न्यात्यापरनामकं महावाक्यं परार्थानुमानमित्यर्थः । प्रतिज्ञाहेत् च न्यायैकदेशत्वादवयवशब्देनापि व्यपदिश्येते, यत्रानयोर्द्वयोरपि परानुमित्यर्थमवश्यप्रयोजकत्वं तत्र तदुभयात्मकस्य न्यायस्य परार्थानुमानत्वं यत्र तु विशिष्टमतेः परस्यानयोरेकतरेणाप्यनुमानप्रतिपत्तिसम्भवस्तत्रैकस्यापि परार्था - जुमानत्वं सम्भवतीत्येतदवयवद्वयात्मकन्यायवाक्यस्य पदार्थानुमानत्वं नैतद्वया