________________
प्रमाणपरिच्छेदः ।
१६३
पृ. २०. पं. २४ विकल्पात्मिकैवेति-अनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययरूपत्वमेवात्र विकल्पात्मकत्वं बोध्यम् । अनुमतेः शब्दज्ञानानुपातित्वाभावेन परलक्षितस्य शब्दज्ञानानुपातित्वे सति वस्तुशून्यप्रत्ययत्वरूपस्य विकल्पत्वस्याभावात्
पृ. २०. पं. २५ देशकालेति-यत्किश्चिद्देशे यत्किश्चित्काले च सत्वेऽप्यस्तित्वनिर्वहतीति सामान्यतो देशकालेत्युक्तम् ।
पृ. २०. पं. २५ सकलदेशकालेति-यत्किञ्चिदेशकालसत्त्वम् , सत्वावच्छेदकदेशकालभिन्नदेशकालासत्त्वश्च न विरुद्धमिति सतोऽपि देशान्तरकालान्तरसत्त्वाभावमादाय नास्तित्वं प्रसेज्यतेत्यतः सकलदेशकालेत्युक्तम्, अन्यत्सुगमम् । विकलप्रसिद्धस्य धर्मिणः खण्डशः प्रसिद्धतया भानं तृतीयकल्पमेव स्वसिद्धान्तीकुर्वन्नाह ।
पृ. २१. पं. १ वस्तुतस्तु-एतत्पक्ष एव भाष्यसम्मतिमुपदर्शयति ।
पृ. २१. पं. २ अत एव-खण्डशः प्रसिद्धपदार्थास्तित्वनास्तित्वसाधनस्यैवोचितत्वादेवेत्यर्थः ।
पृ. २१. पं. ३ भाष्य ग्रन्थे-इत्यस्योपपादित इत्यनेनान्वः एतत्पक्षे अनुमितेराहार्यारोपरूपत्वाभावेऽपि न क्षतिः । नन्वत्र कल्पेऽसतो निषेधासम्भवं कक्षीकृत्योररीकृते खरविषाणं नास्तीत्यनुमानस्य खरे विषाणं नास्तीत्येवंरूपतयोपपादनेऽपि एकान्तनित्यमर्थक्रियासमर्थं न भवतीत्यनुमानस्य का गतिः ? तत्र खण्डशः प्रसिद्धिकरणप्रकारानुपलक्षणात् , एकान्तनित्ये चासति अर्थक्रियासामथ्येस्याप्यसत्तया तनिषेधासम्भवादित्यत आह ।
पृ. २१. पं. ४ एकान्तनित्यमिति विशेषावमर्शदशायाम्-विशेषस्साध्यव्याप्यत्वेन गृहीतो हेतुः, तस्यावमर्शः साध्यधर्माधारे ग्रहणं तदशायां तस्मिन्सति, एतेन अनुमितिकारणयोरविनाभावलक्षणसम्बन्धस्मरणहेतुग्रहणयोस्सम्पत्तिरावेदिता, यद्यपि विशेषावमझे विशेषदर्शनं तच्च परमते साध्यव्याप्यहेतुमान पक्ष इति परामर्शात्मकं ज्ञानं तथापि जैनसिद्धान्ते परामर्शास्यानुमिति कारणत्वानङ्गीकारेणाकारणस्य तस्य सत्त्वाभिधानं न प्रकृतोपयोगीत्युक्त एवार्थ