________________
१६२
जैनतर्कभाषा । विशिष्टवैशिष्टयबोधस्यानुपपत्तेः, एतच्च विशिष्टस्य वैशिष्टयं विशिष्टवैशिष्टयं तदषगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमित्याश्रित्य विशिष्टवैशिष्टयावगाहिशाब्दबोधानुपपत्तिरुक्तदिशा माविता, खरीयत्वविशिष्टविषाणविशेष्यकनास्तित्वप्रकारकानुमित्यनुपपत्तौ गतिस्तु विशिष्ट वैशिष्टयं विशिष्टवैशिष्टयं तदवगाहिबोधे विशेष्यतावच्छेदक प्रकारकनिश्चयस्य कारणत्वमितिखरीयत्वविशिष्टविषाणे नास्तित्वस्य वैशिष्टयावगायनुमितिर्भवति विशिष्टयावगाहि बोधः । तस्य विषाणं खरीयं न वेति संशयकाले विषाणं खरीयं नेतिबाधनिश्चयकाले वा विषाणं खरीयमित्याकारकखरीयत्वलक्षण विशेष्यतावच्छेदक प्रकारक निश्चयरूपकारणाभावाद्भवत्यनुपपत्तिरिति । तथा चानाहार्यभ्रमरूपायाः प्रमारूपा वोक्तानुमितेरसम्भवेऽपि आहार्यारोपरूपा सा विषाणं खरीयं न वेतिसंशयकाले विषाण खरीय नेतिबाधनिश्चयकालेऽपि च स्यादेव । बाधनिश्चयकाले इच्छाजन्यज्ञानस्यैवाऽऽहार्यतया · तस्य बाधनिश्चयप्रतिबध्यत्वेन तत्काले सम्भवो न विरुध्यते, प्रकृते खरविषाणविशेष्यकनास्तित्वप्रकारकानुमितियद्यपि नास्तित्वरूपप्रकारांशेनाहार्यरूपा नास्तित्वाभावत्वाभावस्यास्तित्वस्य खरविषाणे निश्चयाभावात् , तथापि सा विषाणे खरीयत्वप्रकारकतया तत्र खरीयत्वाभावनिश्चयरूपबाधनिश्चयसद्धावेन तदानीं विषाणे खरीयत्वज्ञानम्मे जायतामितीच्छातस्सद्भता खरीयत्वरूपविशेषणांशे आहार्योरोपरूपैव, यद्यपि आहार्यरूपं मानसप्रत्यक्षमेव भवति नतु परोक्षज्ञानं तस्यानाहार्यस्यैव व्यवस्थितेरिति परोक्षज्ञानरूपानुमिति हार्यतया स्वीकर्तुमुचिता, तथापि प्राचीननैयायिकैः प्रत्यक्षस्यैव संशयत्वं न तु परोक्षज्ञानस्य, परोक्षप्रमाणानां निश्चयमात्रजनकत्वस्याभावादित्येवमुररीकृतेऽपि सौन्दडोपाध्यायैः सत्प्रतिपक्षस्थले संशयाकारानुमितिरुररीक्रियते, तथैकदेशिभिराहार्यारोपरूपाऽप्यनुमितिः कक्षीकृतैव, तादृश्यप्यनुमितिन निष्फला, सर्वज्ञे परपरिकल्पितस्य देशकालसत्तालक्षणास्तित्वविपरीतसकल देशकालसत्ताभावात्मकनास्तित्वारोपस्य देशकालसत्तालक्षणास्तित्वसाधनेन खरविषाणे परपरिकल्पितानिरुक्तनास्तित्वविपरीतदेशकालसत्तालक्षणास्तित्वारोपस्य. तद्विपरीतसकलदेशकालसत्ताभावलक्षणनास्तित्वसाधनेन च व्यवच्छेस्यैव तत्फलत्वादित्याह।
पृ. २०. पं २४ विशेषणाद्यशे-विषाणे खरीयत्वादिरूपविशेषणांशे
इत्यर्थः।