________________
१. प्रमाणपरिच्छेदः।
खण्डशः प्रसिद्धतया वा शशशृङ्गस्यभानम् , अर्थात्, शाब्दबोधे अभावे प्रतियोगितया शृङ्गं शृङ्गे च शशपदलक्षणोपस्थितस्य शशसम्बन्धिनस्तादाम्येन भानम् , अनुमितौ पुनः शशीयत्वं नास्तित्वरूपाभावे प्रतियोगितया, अभावस्य पुनः शृङ्गे प्रकारतया, शृङ्गे शशीयत्वन्नास्तीत्येवं भानम् अथवा शशस्याभाव विशेप्यतया शृङ्गस्य चाभावविशेषणतया शशे शङ्गं नास्तीत्येवं भानम् तत्राखण्डस्य स्ररविषाणादे र्भानमिति प्रथमपक्षो न सम्भवतीत्याह ।
पृ. २०. पं. २१ नाखण्डस्यैव भानमिति-एवमभ्युपगमेऽसत्ख्यातिवाद आदृतः स्यात् , स च जैनानामनिष्ट इत्याह, असत्ख्यातिप्रसङ्गादिति असतः खरविषाणादेः ख्यातिः ज्ञानं तस्य प्रसङ्गादित्यर्थः। विकलप्रसिद्धस्य शाब्दबोधादौ विशिष्टरूपतया भानमिति द्वितीयपक्षमधिकृत्याह ।
पृ. २०. पं. २२ शब्दादेरिति-आदिपदादनुमानस्योपग्रहः, तथा च शब्दादनुमानाद्वेति तदर्थः।
पृ. २०. पं. २२ विशिष्टस्य-खरियत्वविशिष्टविषाणादेः। पृ. २०. पं. २२ तस्य-विकल्पसिद्धस्य ।
पृ. २०. पं. २३ विशेषणस्य संशये-विषाणं खरीयं न वेत्येवं विषाणरूपविशेष्ये खरीयरूपविशेषणस्य संशये सति ।
पृ. २०. पं. २३ अभावनिश्चये वा-विषाण खरीयं नेत्याकारकविषाणविशेष्यकखरीयत्वाभावप्रकारकबाधनिश्चये सति वा । __ पृ. २०. पं. २३ वैशिष्टयभानानुपत्तेः-खरीयत्वविशिष्ट विषाणस्य प्रतियोगितया वैशिष्टयस्य यदभावे भान शाब्दबोधे, यच्च खरीयत्वविशिष्टविषाणे नास्तित्वस्य वैशिष्टयभानमनुमितौ तस्यानुपपत्तेः । विशिष्टवैशिष्टयावगाहिबोधे विशेषणताकच्छेदवप्रकारकनिश्चयस्य कारणत्वेन प्रकृते अभावे विशेषणं विषाणं, तत्र विशेषणं खरीयत्वमिति तद्विशेषणतावच्छेदकं, तप्रकारको निश्चयो विषाणं खरीयमित्याकारकः स च विषाणं खरीयं न वेति संशयकाले विषाण खरीयं नेति बाधनिश्चयदशायां वा नास्तीति तदानीं खरविषाणं नास्तीति वाक्यतः प्रतियोगित्वसम्बन्धेन खरीयत्वविशिष्टविषाणप्रकारकामावविशेष्यकबोधलक्षण