________________
जेमतर्कभाषा। - पृ. २०. पं. १९ इत्थंवचनस्यैव-विकल्पसिद्धो धर्मी नास्तीत्येवंरूपवच. नस्यैव कथमीदृग्यचनस्यानुपपत्तिरित्याकाङ्क्षायामाह । __ पृ. २०. पं. २० विकल्पसिद्धर्मिणो-प्रसिद्धस्यैव प्रतिषेधो भवति प्रतियोगिनिरूप्यत्वादभावस्य, निरूपकस्याप्रसिद्धौ तनिरूप्यनिरूपणानुपपत्तेः, विकल्पसिद्धो धर्मों नास्तीत्यनेन वचनेन विकल्प सिद्धधर्मिणो निषेधः क्रियते नैयायिकेन, तनिषेधस्य च प्रतियोगी विकल्प सिद्धो धर्मी तस्य चाप्रसिद्धौ तत्प्रतिषेधस्य विकल्पसिद्धो धर्मी नास्तीत्येवंरूपस्यानुपपत्तेः एतद्विषये भवतु तूष्णीम्भावापत्तिरेवासाकमित्येवमिष्टापत्तिपादप्रसारिका च न निस्तागय नैयायिकस्य, कथायां तूष्णीम्भावस्यापि निग्रहस्थानत्वादिति भावः। ननु "असतो नत्थि निसेहो” इति भवतामपि सिद्धान्तवचनमसन्निषेध प्रतिक्षेपकं जाग]व तथा च नैयायिकवद्भवन्तोऽपि नासत्ख्यातिमुररीकुर्वन्तीति अभावांशेऽसतः प्रतियोगिनो विशेषणतया भानस्यासत्ख्यातिभयादनभ्युपगमे सति शशशङ्गन्नास्तीतिवाक्याप्रतियोगितासम्बन्धेन शशशृङ्गप्रकारकाभावविशेष्यकबोधस्यानुपपत्तौ तदर्थ शशशृङ्गन्नास्तीति वचनलक्षणव्यवहारस्याप्यसम्भवेअत्रार्थे भवतामपि मूकी. भवनमेव न्याय्यमिति
यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोज्यः स्यात्तादृश्यर्थविचारणे ॥१॥ इति वचनान्न नैयायिकम्प्रति तूष्णीम्भावापत्तिदूषणम्भवद्भिरामञ्जनीयमित्याशङ्काशङ्क्न्मूलनायाह ।
पृ. २० पं. २१ इदं त्ववधेयम्-विकल्पसिद्धधर्मिणो भानं त्रिधा सम्भाव्येत तद्यथा-शशगङ्गन्नास्तीतिवाक्याजायमाने शशशृङ्गन्नास्ति अनुपलम्भादित्यनुमानसमुद्भवे वा बोधो अखण्डस्य शशशृङ्गस्य भानम् अर्थात् प्रतियोगित्वसम्बन्धेनाखण्डशशशृङ्गप्रकारकोऽभावविशेष्यकः शाब्दबोधः । अखण्डशशशङ्गविशेष्यिका नास्तित्वप्रकारिकाऽनुमितिर्वा, विशिष्टरूपतया वा शशशृङ्गस्य भानम् अर्थादुक्तवाक्यजन्यबोधे शशीयत्वविशिष्टशृङ्गं प्रतियोगित्वसम्बन्धेनाभावे प्रकारतया भासते, अनुमितौ तु शशीयत्वविशिष्टशृङ्गे नास्तित्वं प्रकारतया भासते,