________________
१. प्रमाणपरिच्छेदः। पृ. २० पं. ११ व्यभिचारः-अस्तित्वलक्षणा सत्ताविधिस्वरूपे भाव एव वर्त्तते भावाभावधर्मश्च भावे अस्तित्वाभाववत्यभावे च वर्तत इत्यनैकान्तिकत्वम् । व्यभिचारमेव ग्राहयति ।
पृ. २०. पं. ११ अस्तित्वाभावेति तृतीये--अभावधर्मो हेतुरिति पक्षे पुनः।
पृ. २०. पं. १२ विरोधः अस्तित्वरूपसाध्यसामानाधिकरण्यम् , अत्रैव हेतुमाह ।
पृ. २०. पं. १२ अभावधर्मस्येति-उक्तार्थम् , वृद्धवचनेन संवादयति ।
पृ. २०. पं. १३ तदुक्तमिति-नासिद्धे इति-असिद्धसत्ताके सर्वज्ञमिणि भावधर्मलक्षणो हेतुर्नास्ति । उभयाश्रयः-भावाभावोभयधर्मलक्षणो हेतुर्व्यभिचारी, अनैकान्तिकः । अभावस्य धर्मोऽभावधर्मलक्षणो हेतुविरुद्धः। सत्तारूपसाध्यासमानाधिकरणः, ततश्च । सा सत्ता-सर्वज्ञवर्तिनी सत्ता । कथम्-कथं साध्यते न कथश्चिदपि साधयितुं शक्येति । उक्ताशङ्काम्प्रतिक्षिपति ।
पृ. २०. पं. १६ नेति इत्थं-उक्तविकल्पत्रयकवलीकरणेन सत्तासाधकहेत्वपाकरणेन सत्तासाध्यकानुमाननिराकरणे।
पृ. २०. पं. १६ वह्निमद्धर्मत्वादिविकल्पैः-पर्वतो वह्निमान्धूमादित्यत्र वह्नौ साध्ये तद्धतुळूमो वह्निमद्धों वतिमदवतिमद्धर्मोऽवतिमद्धर्मो वा स्यात् आद्ये पर्वतस्यानुमानात्प्राग वह्निमवानिश्चये तदीयो धूमो न वह्निमद्धर्मतया निश्चितः किन्तु महानसीयधूम एव स पर्वतेऽसिद्धः, कथं वहिन साधयेत् । द्वितीये व्यभि चारः वन्यभाववत्यपि तस्य वृत्तेः। तृतीये विरुद्धः अवह्निमद्धर्मस्य धूमस्य क्वचिदपि वह्निमत्यभावादित्येवं विकल्पग्रासैधूमेन वहन्यनुमानस्याप्युच्छेदप्रसङ्गादित्यर्थः । प्रमेयसिद्धिः प्रमाणाद्धीतिवचनात्प्रमाणेनैव वस्तुसिद्धिर्भवति । विकल्पस्तु न प्रमाणं ततो विकल्पसिद्धिर्न भवत्येव, तथा च प्रमाणप्रसिद्धत्वमे. कमेव धर्मिणो न विकल्पप्रसिद्धत्वं नापि प्रमाणविकल्पोभयसिद्धत्वमिति नैयायिकमतस्योपन्यासपूर्वकमयुक्तत्वं प्रपञ्चयति ।
पृ. २०. पं. १८ विकल्पस्याप्रमाणत्वेति...तस्य-नैयायिकस्य ।