________________
१५८
जैनतर्कभाषा द्धानुमानस्यापि, अत्र सर्वजनप्रसिद्धत्वमेव प्रकृतत्वम् । पर्वतो वह्विमानित्यनुमानस्येदानी प्रस्तावाभावेन प्रस्तुतत्वलक्षणप्रकृतत्वस्य तत्राघटनात् कथं पर्वतो वहिमानित्यनुमानस्य भङ्ग इत्यपेक्षायामाह ।
पृ. २०. पं. ७ वह्निमात्रस्येति-वह्विसामान्यस्येत्यर्थः ।
पृ. २०. पं. ७ अनभीप्सितत्वात्-पर्वतगततया वह्वेस्साधनाय यतमानस्य वादिनः पर्वते वह्निमनुमिनुयामितीच्छाया एव भावेन वह्विसामान्यस्य तदविषयत्वात् वह्विसामान्यस्य सिद्धत्वेन तत्रेच्छाया असम्भवाच्च ।
पृ. २०. पं. ८ विशिष्टवह्वेश्च-पर्वतीयत्वविशिष्टवह्वेश्च ।
पृ. २०. पं. ८ अनन्वयात्-धूमेन हेतुना सममन्वयस्य व्याप्तेरसिद्धयाऽभावात् महानसरूपदृष्टान्त एव तयोरन्वयग्रहो वाच्यस्स न सम्भवति महानसे धूमस्य सत्वेऽपि पर्वतीयवह्निरूपसाध्यस्याभावादित्यर्थः। तथा च यथा तत्र वह्निधूमसामान्ययोरेव व्याप्तिग्रहः हेतोः पर्वते ग्रहणाच पर्वतीयवद्विसिद्धिः तथा प्रकृतानुमानेऽप्यस्तित्वसुनिश्चितासम्भवद्वाधकप्रमाणत्वयोरेव व्याप्तिग्रहः सर्वज्ञे धर्मिणि सुनिश्चितासम्भवद्भाधकप्रमाणत्वग्रहाच्च तत्र सत्चसिद्धिरिति किमनुपपन्नमिति भावः । पुनर्बुदुटो बौद्धः सत्त्वसाधकहेतूनेव विकल्पकबले प्रक्षिपन् सर्वज्ञपर्मिकसत्त्वसाधकानुमित्युन्मूलनाय शङ्कते ।
पृ. २०. पं. ८ अथ तत्र (सर्वज्ञे) सत्तायां...नद्धेतुः-सत्त्वसाधकहेतुः ।
पृ. २०. पं. १० आये-भावधर्मस्य हेतूकरणे। .. पृ २०. पं. १० असिद्धिः-सर्वज्ञे धर्मिणि भावधर्मरूपहेतोस्सिद्धथभावः, तत्र हेतुमाह।
पृ. २०. पं. १० असिद्धसत्ताके इति-असिद्धा सत्ता यस्य सोऽसिद्धसत्ताकः तसिन् सर्वज्ञे धर्मिणीत्यर्थः।।
पृ. २०. पं. १० भावधर्मासिद्धेः-भावधर्मो हि भावरूपमिणि वर्त्तते सर्वज्ञस्य त्वद्यापि सत्तेव न सिद्धा तामन्तरेण न भावत्वमिति भावधर्मलक्षणहेतो स्तबासिद्धेः। द्वितीये भावाभावधर्मस्य सत्चासाधकहेतुत्वमिति कल्पे ।