________________
1. प्रमाणपारच्छेदः ।
स्तित्वान्यतरस्यैव साध्यत्वम्, अलब्धसत्ताके तस्मिन्धर्मान्तरस्य साधना. योग्यत्वादित्याह ।
पृ. १९. पं. २३ प्रमाणोभयसिद्धयोरिति-प्रमाणसिद्धप्रमाणविकल्पोभयसिद्धयोरित्यर्थः। विकल्पसिद्ध धर्मिणि सत्त्वासत्वयोरेव साध्यत्वमित्यत्र प्राचां वचनं संवादकतया दर्शयति ।
पृ. २०. पं. ३ तदुक्तम्-तस्मिन्-धर्मिणि-सत्तेतरे-सत्त्वासत्त्वे, विकल्पसिद्ध सर्वज्ञधर्मिणि सत्त्वसाधनमसहमानस्य बौद्धस्य मतं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. २०. पं. ५ अत्रेति-धर्मिणो विकल्पसिद्धत्वे इत्यर्थः, बौद्ध इत्यस्य आहेत्यनेन सम्बन्धः, तद्वक्तव्यमुपदर्शयति ।
पृ. २०. पं ५ सत्तामात्रस्येति-अनभीप्सितत्वात्-वादिनो जैनस्थानभिलषितत्वात् ।
पृ. २०. पं. ५ विशिष्टसत्तासाधने-सर्वज्ञवृत्तित्वविशिष्टसत्तासाधने । वा अथवा अस्य पूर्वमेवान्वयः।
पृ. २०. पं. ६ अनन्वयात्-सुनिश्चितासम्भवद्भाधकप्रमाणत्वेन हेतुना सममन्वयस्य व्याप्तेरसिद्धाभावात् , न हि यत्र सुनिश्चितासम्भवद्धाधकप्रमाणत्वं तत्र सर्वज्ञवृत्तित्वविशिष्ट सच्चमित्यन्वयग्रहोऽस्ति, दृष्टान्त एव तु व्याप्तिग्रहो वाच्यस्तत्र सर्वज्ञवृत्तित्वविशिष्टसत्त्वस्याभावात् , पक्ष एव तु व्याप्तिमहाभ्युपगमे तत एव सर्वज्ञस्यासिद्धत्वादनुमानवैफल्यमित्यभिसन्धिः । ततश्च
पृ. २०. पं. ६ विकल्पसिद्धे-सर्वज्ञे-धर्मिणि-न सत्ता साध्या-सत्त्वं साध्य मनुमितिविषयो न भवति । -
पृ. २०. पं. ६ तदसत्-एतद्रौद्धमतमयुक्तम् ।
पृ. २०. पं. ७ इत्थं सति-उक्तप्रकारेण सर्वज्ञधर्मिणि सत्त्वानुमानस्य निराकारणे सति ।
पृ. २०. पं. ७ प्रकृतानुमानस्यापि-पर्वतो वहिमानिति सर्वजनप्रसि