________________
जैनतर्कभाषा |
पृ. १९. पं. १६ विकल्पसिद्धो धर्मीति - अत्र सर्वज्ञोऽस्तीत्यनुमाने, खरविषाणं नास्तीत्यनुमाने च, हि यतः । उभयसिद्धं धर्मिणमुदाहरति ।
पृ. १९. पं. २० उभयसिद्धी... स-शब्दः, हि यतः ।
पृ. १९. पं. २१ वर्त्तमानः- वादिप्रतिवादिकर्णविवरवर्त्ती सन् वर्त्तमानकाली, यस्तु वर्त्तमानोऽपि न वादिप्रतिवादिकर्णविवरणवर्त्ती स भूतभविष्यशब्दवृद्विकल्पसिद्ध एवेति बोध्यः । सर्वज्ञोऽस्तीत्यनुमानं सर्वज्ञानभ्युपगन्तुमीमांस. कादीन् प्रतिवादिनः प्रति सर्वज्ञाभ्युपगन्त्रा जैनादिना क्रियते ततो यद्यपि वाद्यपेक्षयाऽऽगमप्रमाणसिद्ध एव सः, तथापि सर्वज्ञप्रतिपादक आगमो न मीमांसकादीन् प्रति निश्चितप्रामाण्यक इति विकल्पसिद्धत्वं तस्य पूर्वमभिहितं, खरविषाणं नास्तीत्यनुमानं तु असतः खरविषाणादेः ख्यातिरेव नास्तीति तस्य सत्त्वमसत्वं वेति पृच्छायां मूकीभवनमेव न्याय्यं तत्र विधिनिषेधवचनान्यतरोद्गारे वाच्यत्वे प्रमेयत्वस्यापि प्रसक्तया निर्धर्मकत्वाभावतोऽलीकत्वमेव भज्येतेत्यादियुक्तिजालं पुरस्कुर्वतो नैयायिकादीन् प्रति स्याद्वादिना क्रियते असतो नास्ति निषेध इतित्वेकनयमाश्रित्य अत्रैव वा ग्रन्थकारोऽस्योपपत्तिं करिष्यति अन्यथा विधिनिषेधयोरेकाभावेऽपरस्यावश्यम्भाव इति निषेधाभावे सच्वमेव प्रसज्यते, तत्र कथायां
१५६
कीभवने निगृहीत एव वादी स्यादित्यनुमानेन नास्तित्वं तस्य साधनीयमेव, तथा च निश्चितप्रामाण्यकप्रत्यक्षादिसिद्धत्वं वादिप्रतिवाद्युभयापेक्षयाऽपि खरविषाणादेर्नास्त्येव, अस्ति च खरविषाणमितिप्रत्ययः स च खरविषाणनास्तित्वानुमितितः प्राक् यथा प्रामाण्येन न निश्चितस्तथाऽप्रामाण्येनापीति भवति तद्विषयत्वाद्विकल्पसिद्धत्वमित्यभिप्रायेण खरविषाणस्यापि विकल्पसिद्धत्वं प्रागभिहितम् । शब्दः परिणामीत्यनुमानं तु नैयायिकादीन्प्रति जैनेन क्रियते, तत्र तु शब्दत्वेन सर्वोऽपि शब्दः पक्षीकृत इति वर्त्तमानस्य तस्य वादिप्रतिवाद्युभयापेक्षयैव प्रत्यक्षप्रमाणसिद्धत्वेऽपि भूतभविष्ययोश्च शब्दयोः पक्षीकृतयोर्न विशेषतेऽस्मदादिप्रत्यक्षविषयत्वमिति तज्ज्ञानमनिश्चितप्रामाण्याप्रामाण्यकमेव तम्प्रतीतितद्विषयत्वात्तयोर्विकल्पसिद्धत्वमिति कृत्वा शब्दरूपो धर्मी प्रमाणविकल्पोभयसिद्ध इत्यर्थः यश्च प्रमाणसिद्धो धर्मी यो वा प्रमाणविकल्पोभय सिद्धस्तत्रा मुकमेव साध्यम्भवितुमईतीति नास्ति नियमः किन्तु यं यं धर्मं तत्र साधयितुमिच्छति वादी स सर्वोऽपीछचविषयो धर्मस्साध्यं भवितुमर्हति विकल्पमात्र सिद्धे तु धर्मिणि अस्तित्वना