________________
१. प्रमाणपरिच्छेदः ।
१५५
पृ. १९. पं. ७ धर्मी पुनरिति-साध्यधर्माधारत्वेनेत्यनन्तरमङ्गमिति सम्ब ध्यते, अत्र हेतुमाह ।
पृ. १९. पं. ७ आधारेति पक्षो हेतुरित्येतद्द्द्वयमेव स्वार्थानुमानेऽङ्गम्, पक्षश्च साध्यविशिष्टो धर्मी, तथा च विशिष्टस्य विशेषणविशेष्याभ्यां कथञ्चिदभिन्नस्याङ्गत्वे तदभिन्नस्य बहून्यादिसाध्यस्वरूपधर्मात्मकविशेषणस्य पर्वतादिधमिविशेषस्वरूपविशेष्यस्य चाङ्गत्वं प्राप्तमेवेति पक्षान्तरमुपदर्शयति ।
पृ. १९. पं. ८ अथवेति-साध्यरूपधर्मस्य पृथगङ्गत्वं धर्मिविशेषश्च पृथगङ्गत्वमिति धर्मधर्मिणोर्भेदविवक्षया प्रथमक्षः, तदभिन्नाभिन्नस्य तदभिन्नत्वमितिनियमतो विशेषणाभिन्नविशिष्टाभिन्नस्य विशेष्यरूपधर्मिणो विशेषणीभूतधर्माभिन्नत्वमित्येवं धर्मधर्मिणोरभेदविवक्षया च द्वितीयपक्षः, स्याद्वादे सर्वस्य घटमानत्वादित्याशयेनाह ।
पृ. १९. पं. १० धर्मधर्मिभेदाभेदविवक्षयेति - पूर्वं पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्ध धर्मीत्युक्तं, तत्र धर्मिणः प्रसिद्धिः कस्मादित्यपेक्षायामाह ।
पृ. १९. पं. ११ धर्मिण प्रसिद्धश्च... तत्र - प्रमाणप्रसिद्धत्व - विकल्प प्रसिद्धत्व - प्रमाणविकल्पोभयप्रसिद्धत्वानाम्मध्ये, प्रत्यक्षादीत्यादिपदात्परोक्षप्रकाराणां स्मृतिप्रत्यभिज्ञातर्कानुमानागमानामुपग्रहः, अवधृतत्वं निश्चितत्वम्, शब्दानुपातीवस्तुशून्यो विकल्प इति परलक्षित विकल्पस्य वस्तुमात्रविषयकत्वाभावेन निर्णीततया तत्प्रसिद्धत्वमसम्भवदुक्तिकमित्यतो विकल्पप्रसिद्धत्वमन्यथा निर्वक्ति |
पृ. १९. पं. १३ अनिश्चितेति-न निश्चितमनिश्चितम् अनिश्चिते प्रामायाप्रामाण्ये यस्य सोऽनिश्चितप्रामाण्याप्रामाण्यस्तादृशो यः प्रत्ययो ज्ञानं वद्गोचरत्वं तद्विषयत्वं तदेव विकल्पप्रसिद्धत्वमिह विवक्षितमित्यर्थः । तद्वायविषयत्वं निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमप्रमाणानिश्चितप्रामाण्याप्रामाण्यप्रत्ययो भय विषयत्वम्, तत्र प्रमाणप्रसिद्धं धर्मिणमुदाहरति ।
पृ. १९. पं. १५ तत्रेति-निरुक्तत्रयाणाम्मध्ये,
पृ. १९. पं. १६ स-पर्वतः । विकल्पसिद्धं धर्मिणं दर्शयति ।