________________
१५४ .
भतर्कभाषा । धूमस्य हेतोाप्तियते न तु पर्वतरूपधर्मिणा सममतो व्याप्तिग्रहणकालापेक्षया वह्निरूपधर्म एव साध्यम् , धर्मविशिष्टधर्मिणोऽसिद्धस्य साध्यत्वे तदेकदेशे धर्मे उपचारात्साध्यपदप्रयोगोऽप्युपपद्यते इत्याशयः।
पृ. १९. पं. ३ अन्यथा-वहिरूपधर्मस्य साध्यत्वानङ्गीकारे, तदनुपपत्तेः हेतोस्साध्येन समं व्याप्तिग्रहणस्यानुपपद्यमानत्वात् , यतोऽसिद्धत्वाद्वस्तुस्थित्यासाध्यं वह्निविशिष्टः पर्वत एव न च तेन समं धूमस्य हेतोर्व्याप्तिग्रहणमुपपद्यत इत्यर्थः।
पृ. १९. पं. ४ आनुमानिकप्रतिपत्त्यवसरापेक्षया-पर्वतो वह्निमानित्यनुमित्यपेक्षया ।
पृ. १९. पं. ४ पक्षापरपर्यायः-पक्ष इति द्वितीयं नाम यस्य सः ।
पृ. १९ पं. ४ तद्विशिष्टः-वतिरूपधर्मविशिष्टः । प्रसिद्धः प्रत्यक्षादिप्रमाणसिद्धः, विकल्पसिद्धो वा अस्ति सर्वज्ञ इत्यादौ पूर्व विकल्पसिद्धस्यापि सर्वज्ञादेर्धमित्वाभ्यनुज्ञानात् । • पृ. १९. पं. ५ धर्मी-पर्वतः साध्यमित्यनुवर्तते, केवलस्य तु धर्मिणस्साध्यत्वाभ्युपगमे न किञ्चित्प्रयोजनमिति तस्य साध्यत्वन्नाङ्गीक्रियते, वह्निपर्वतयोविंशकलितयोः पूर्व सिद्धत्वेऽपि वह्निविशिष्टपर्वतस्यानुमितितः प्रागसिद्धत्वेन युक्तं तस्यानुमित्यपेक्षया साध्यत्वाशयः। एवञ्च यावन्त्यङ्गानि तानि दर्शयति।
पृ. १९. पं. ५ इत्थं चेति-उक्त दिशा साधनादीनां स्वरूपनिर्धारणे चेत्यर्थः । साधनादीनां कथं स्वार्थानुमानाङ्गत्वमित्यपेक्षायामाह।
पृ. १९. पं. ६ तत्रेति-धर्मिसाध्यसाधनानाम्मध्य इत्यर्थः । अन्ते उद्दिष्टस्यापि साधनस्य प्रथममङ्गत्वोपपादनमनुमितिहेतुत्वेन तत्र तस्य प्राधान्यमितिख्यापनाय ।
पृ. १९. पं. ७ गम्यत्वेन-अनुमितिविषयत्वेन, अङ्गमित्यनुवर्तते, साध्य. मनुमित्या कुत्र विधेयमित्याकाङ्क्षायामाधारोऽप्यवश्यं साध्यस्योदेश्यतयाऽनुमितावङ्गमित्याह ।