________________
१. प्रमाणपरिच्छेदः ।
१५३ त्वेनैव व्याप्तस्यासंहतात्मार्थत्वेन सहकाधिकरणावृत्तित्वं तथा च विरोधलक्षणो हेतुदोषः, साध्यस्य च साङ्ख्याभिमतात्मार्थत्वलक्षणसाध्यस्य, चकाराद्विशेषवि. रुद्धत्वं हेतुविशेषेण दृष्टान्तगतेन सङ्घातपरार्थत्वेनैकाधिकरणावृत्तित्वं । तथा च सति दृष्टान्ते साध्याभावात् साध्यवैकल्यलक्षणो दृष्टान्तदोष इत्यर्थः । नन्वप्रतीतत्वादिकं परार्थानुमाने साध्यस्य विशेषकम्भवति, तत्रैव विपरीतानध्यवसिता. दीनां साध्यता प्रतिवादिना प्रत्यक्षादिप्रमाणेन साध्यस्य यनिराकरणं तदभावः, साध्यस्य वाद्यभिमतत्वञ्च, इदानीं तु स्वार्थानुमानं निरूप्यते भवता, तत्रानवसर एवेदृशसाध्यस्वरूपोपवर्णनस्येत्याशङ्कापनोदायाह ।
पृ. १८. पं. २८ स्वार्थानुमानावसरेऽपीति-स्वार्थानुमाननिरूपणकालेऽपीत्यर्थः।
पृ १९. पं. १ परार्थानुमानोपयोग्यभिधानम्-परार्थानुमाने साध्यरूपविशेषकतयोपयुक्तस्याप्रतीतत्वादिविशेषणस्य यदभिधानं तत् ।
पृ. १९. पं. १ परार्थस्य-परार्थानुमानस्य ।
पृ. १९. पं. १ स्वार्थपुरस्सरत्वेन-स्वयं साध्यमनुमाय परस्य तत्प्रतिपत्तये यथा समयं प्रतिज्ञाद्यवयववाक्यं प्रयुङ्क्ते इत्येवं स्वार्थानुमानपूर्वकत्वेन । ___ पृ. १९. पं. १ अनतिभेदज्ञापनार्थम्-स्वार्थस्य स्वयमेवलिङ्गग्रहणादितो जायमानस्य परार्थानुमानस्य परप्रयुक्तावयवप्रभवलिङ्गज्ञानादितो जायमानस्य यत्किञ्चिद्विशेषसद्भावेऽप्यत्यन्तवैलक्षण्यं नास्तीत्येतज्ज्ञापनार्थम् । पर्वतो वह्निमान्धूमादित्यादौ साध्यं वह्नयात्मको धर्मः पर्वतरूपो धर्मी वा वह्निविशिष्टपर्वतो वा, नाद्यः वह्निरूपधर्ममात्रस्य वादिप्रतिवादिभ्यामविगानेन प्रतीततया सिद्धस्य तस्य साध्यत्वायोगात् , अत एव न द्वितीयः, पर्वतरूपर्मिणोऽपि वादिप्रतिवादिनो सिद्धत्वात् , किञ्च साध्येन सहाविनाभावो हेतोरपेक्षितोऽनुमाने, न च पर्वतरूपर्मिणा समं धृमस्याविनाभाव इति कथं पर्वतस्य साध्यता, अत एव न तृतीयोऽपि वह्निविशिष्टपर्वतेनापि समं धूमस्याविनाभावाभावादित्याशङ्कापनोदायाह ।
पृ. १९. पं. ३ व्याप्तिग्रहणसमयापेक्षया-वहिना धर्मेण सममेव