________________
अनतर्कभाषा - पृ. १८. पं. २५ ततश्च-अभीप्सितत्वस्य वा यद्यभीप्सितस्वरूपत्वतश्च ।
पृ. १८. पं. २५ परार्थाश्चक्षुरादय इत्यादौ-चौद्धम्प्रति चक्षुरादयःपरास्सिङ्घातत्वादिति साङ्ख्याभिमतानुमाने ।
पृ. १८. पं २५ पारार्थ्यमात्राभिधानेऽपि-पारायंमात्रस्य साध्यतयाऽभिधानेऽपि मात्रपदेनात्मलक्षणपरार्थत्वाभिधानस्य व्यवच्छेदः ।
पृ. १८. पं. २६ सिध्यति-ततश्चेत्यस्यात्रान्वयादात्मसाधनार्थमुक्तानुमानप्रयोक्तुर्वादिन आत्मार्थत्वस्यैवाभीप्सितत्वादात्मार्थत्वमेव साध्यं सिध्यतीत्यर्थः ।
पृ. १८. पं. २६ अन्यथा-वाद्यभीप्सितत्वरूपतयाऽभीप्सितत्वस्याविवक्षायाम् ।
पृ. १८. पं. २६ संहतपरार्थत्वेनेति-बौद्धैश्चक्षुरादीनां संहतपरार्थत्वेना. भ्युपगमात्साधनवैकल्यादित्यन्वयः, यदि वाद्यपेक्षयेव प्रतिवाद्यपेक्षयाऽभीप्सितत्वमुपगतम्भवेत्तदा प्रतिवादिनो बौद्धस्य चक्षुरादीनां परार्थत्वं संहतपरार्थत्वमेवाभीप्सितमिति तदपि साध्यम्भवेत् , तत्साधने न च साख्यस्य नात्मा सिध्यति ततस्तत्साधनं विफलमेव साङ्ख्यस्य स्यादित्यर्थः, एतावताऽऽत्मार्थत्वस्य साध्यत्वं समर्थितं, तेन समं च सङ्घातत्वहेतोन दृष्टान्ते शयनीयादावन्वय इति रत्नाकरकारा अनन्वयादिदोषदुष्टम् ।
पृ. १८. पं. २८ एतत्-परार्थाश्चक्षुरादय इति साङ्ख्य साधनमिति वदन्ती त्यर्थः । तथा च रत्नाकरपाठः, “ततश्च, परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यम्प्रसिद्धयति तद्धीच्छयन्व्याप्तं साव्यस्य बौद्ध. म्प्रति साध्यमेव, आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः, अन्यथा साधनस्य वैफल्यापत्तेः, संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामुपगमात् , एवश्चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति" अत्र हेतोरिष्टविघातकारितयेत्यस्य हेतोःसङ्घात. त्वस्य शयनीयादिदृष्टान्तगतस्य सङ्घातपरार्थत्वेन व्याप्तस्य इति यस्साङ्ख्यस्यासंहत आत्मा तस्य यो विघातोऽसंहतत्वस्वरूपापनोदस्तत्कारितया संहतात्मस्वरूपज्ञापकतयेति यावत् , विशेषविरुद्धत्वं विशेषः परार्थत्वलक्षणसाध्यस्यासंहतपरार्थत्वं