________________
जैनतर्कभाषा । स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेण क्रियाजननायोगात्, ममृणतूलिकादिसन्निकर्षण सुषुप्तस्यापि तत्प्रसङ्गाच । केचित्तु. “ततोऽर्थग्रहणाकारा शक्तिानमिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथञ्चन ॥१॥"
__ (तत्त्वार्थश्लोकवा० १-१-२२) इति-लब्धीन्द्रियमेवार्थग्रहणशक्तिलक्षणं प्रमाणं सङ्गिरन्ते; तदपेशलम् , उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्षप्रत्य
क्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च । अथ ज्ञानशक्तिरप्या१० त्मनि स्वाश्रये परिच्छिन्ने द्रव्यार्थतः प्रत्यक्षेति न दोष इति
चेत् ; न; द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थितेः, 'ज्ञानेन घटं जानामि' इति. करणोल्लेखानुपपत्तेश्च न हि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूल
कपालादीनामुल्लेखोऽस्तीति। १५ तद् द्विभेदम्-प्रत्यक्षम् , परोक्षं च । अक्षम् इन्द्रियं प्रति
गतम् कार्यत्वेनाश्रितं प्रत्यक्षम् , अथवाऽश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्यौणादिकनिपातनात् अक्षो जीवः तं प्रतिगतं प्रत्यक्षम् । न चैवमवध्यादौं मत्यादौ च प्रत्यक्षव्यपदेशो
न स्यादिति वाच्यम् । यतो व्युत्पत्तिनिमित्तमेवैतत् , प्रवृत्ति२० निमित्तं तु एकार्थसमवायिनाऽनेनोपलक्षितं स्पष्टतावत्त्वमिति ।
स्पष्टता चानुमानादिभ्योऽतिरेकेण विशेषप्रकाशनमित्यदोषः। अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम् , अस्पष्टं ज्ञानमित्यर्थः।
प्रत्यक्षं द्विविधम्-सांव्यवहारिकम, पारमार्थिकं चेति । संमीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलोकाभिलापल२५ क्षणः संव्यवहारः, तत्प्रयोजनकं सांव्यवहारिकम्-अपारमार्थि.