________________
न्यायविशारद-न्यायाचार्य-कूर्चालसरस्वती-सुगृहीतनामधेय-भगवद्धरि
भद्रसूरिलघुबान्धव प्रभृतिविशद बिरुदावली विभूषित
महामहोपाध्याय श्रीयशोविजयगणिप्रणीता
॥जैन त के भाषा॥
१. अथ प्रमाणपरिच्छेदनामा प्रथमः परिच्छेदः
ऐन्द्रवृन्दनतं नत्वा जिनं तत्त्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ।।
। १. अथ प्रमाणसामान्यलक्षणनिरूपणम् । तत्र-स्वपरव्यवसायि ज्ञानं प्रमाणम्-स्वम् आत्मा ज्ञानस्यैव स्वरूपमित्यर्थः, परः तस्मादन्योऽर्थ इति यावत्, तौ ५ व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्ध्यादिवादिनां मीमांसकादीनाम्, बाह्यार्थापलापिनां ज्ञानाद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । १० ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत् ; सत्यम् ; स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात् , प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत् ; न ; प्रमाण फलयोः कथञ्चिदभेदेन तदुपपत्तेः । इत्थं चात्मव्यापाररूपमुप- १५ योगेन्द्रियमेव प्रमाणमिति स्थितम् ; न ह्यव्याप्त आत्मा