________________
१. प्रमाणपरिच्छेदः ।
कमित्यर्थः, यथा अस्मदादिप्रत्यक्षम् । तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात्परमार्थतः परोक्षमेव, धूमात् अग्निज्ञानवद व्यवधानाविशेषात् । किञ्च, असिद्धानै कान्तिकविरुद्धानुमानाभासवत् संशयविपर्ययानध्यवसायसम्भवात् , सदनुमानवत् मङ्केतस्मरणादिपूर्वकनिश्चयमम्भव.च परमार्थतः ५ परोक्षमेवैतत् । ___एतच्च द्विविधम्-इन्द्रियजम् . अनिन्द्रियजं च । तत्रेन्द्रियजं चक्षुरादिजनितम् , अनिन्द्रियजं च मनोजन्म । यद्यपीन्द्रि यजज्ञानेऽपि मनो व्यापिपर्ति; तथापि तत्रेन्द्रियस्यैवासाधारण कारणत्वाददोषः। द्वयमपीदं मतिश्रुतभेदाद् द्विधा । तत्रेन्द्रिय- १० मनोनिमित्तं श्रुताननुमारि ज्ञानं मतिज्ञानम् , श्रुतानुसारि च श्रुतज्ञानम् । श्रुतानुमारित्वं च -सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसत्य वाच्यवाचकभावेन संयोज्य ‘घटो घटः' इत्यायन्तजन्या (जैल्पा) कारग्राहित्वम् । नन्वेवमवग्रह एवं मतिज्ञानं स्यांन्नत्वीहादयः, तेषां शब्दोल्लेखसहितत्वेन श्रुतत्वप्रसङ्गादिति १५ चेत् ; न; श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वात् , अभ्यासपाटववशेन श्रुतानुसरणमन्तरेणापि विकल्पपरम्परापूर्वकविविधवचनप्रत्तिदर्शनात् । अङ्गोपाङ्गादौ शब्दायवग्रहणे च श्रुताननुमारित्वान्मतित्वमेव, यस्तु तत्र श्रुतानुसारी प्रत्ययस्तत्र श्रुतत्व- २० मेवेत्यवधेयम्।
। अथ मतिज्ञाननिरूपणम् । मतिज्ञानम्-अवग्रहेहापायधारणाभेदाचतुर्विधम् । अवकृष्टो ग्रहः-अवग्रहः । स द्विविधः-व्यञ्जनावग्रहः, अर्थावग्रहश्च । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्-कदम्बपुष्पगोलकादिरूपाणामन्तर्निवृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुश- २५ क्तिविशेषलक्षणमुपकरणेन्द्रियम् , शब्दादिपरिणतद्रव्यनिकुरुम्बम् , तदुभयसम्बन्धश्च । ततो व्यञ्जनेन व्यञ्जनस्यावग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः। अथ अज्ञानम्